वाचस्पत्यम्
मुहुस् || अव्य० मुह—उसिक् । पौनः पुन्ये अमरः ।
शब्दकल्पद्रुमः
मुहुः || [स्] व्य, (मुह + “मुहेः किच्च् ।” उणा० २ । १२१ । इति उसिः किच्च ।)
पुनः पुनः । इत्यमरः । ३ । ४ । १ ॥ (यथा, पञ्चदश्याम् । ७ । १७१ । “स्वस्वप्नमापरोक्षेण दृष्ट्वा पश्यन् स्वजागरम् । चिन्तयेदप्रमत्तः सन्नुभावनुदिनं मुहुः ॥”)