संस्कृत-शब्दकोशः

मुहुस् मुहेर

मुहूर्त

वाचस्पत्यम्

मुहूर्त्त ||‍ स्त्री० हुर्च्छ—क्त धातोः पूर्बं मुट् च । १ द्वादशक्षणमिते काले, पञ्चदशधाविभक्तस्य दिनस्व पञ्चदशभागे, किञ्चिन्- न्यूनाधिकघटिकाद्वयरूपे २ काले च ।


शब्दकल्पद्रुमः

मुहूर्त्तः || पुं क्ली, (हूर्च्छतीति । “अञ्जिघृसिभ्यः क्तः ।” उणा० ३ । ८९ । इत्यत्र बाहुलकात् हुर्च्छेरपि इति उज्ज्वलदत्तः । मुडागमश्च प्राक् । “राल्लोपः ।” ६ । ४ । २१ । इति सूत्रेण छस्य लोपः ।)
द्वादशक्षणपरिमितकालः । इत्य- मरः । १ । १ । ११३ ॥ घटिकाद्बयम् । इति राजनिर्घण्टः ॥ (अस्य विवृतिर्यथा । तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः । पञ्चदशाक्षि- निमेषाः काष्ठा ॥ त्रिंशत्काष्ठाः कलाः । विंशतिकलो मुहूर्त्तः कलादशभागश्च । त्रिंश- न्मुहूर्त्तमहोरात्रम् । इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥)
दिनपञ्चदशभागैकभागः । यथा, “प्रातःकालो महूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्रस्त्रिमुहूर्त्तः स्यादपराल्लस्ततः परम् ॥ सायाह्नस्त्रिमहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वधृतवचनम् ॥ * ॥
कर्म्मविशेषे तस्य परिमाणं यथा । ननु व्रतोप- वासस्नानादौ घटिकैकापि या भवेदित्यत्र घटिकापदं दण्डपरं महूर्त्तपरं वा स्मृत्या- चारधृतचतुर्द्दण्डात्मकारुणोदयज्ञापके चतस्रो घटिकाः प्रातररुणोदय उच्यते इत्यादौ प्रभाते घटिकायुग्मं प्रदोषे घटिकाद्बयम् । दिनवत् सर्व्वकार्य्याणि कारयेन्न विचारयेदिति हलायुध- धृतलिखिष्यमाणत्रियामामिति वचनयोरेक- मूलयोश्च उभयत्र प्रयोगदर्शनादिति संशयः । अत्रोच्यते । श्राद्धादावस्तगामिंनीति घटिका- नियामकवचनचतुर्थचरणे पार्व्वणयोग्यतया घटिकाया मुहूर्त्तात्मकत्वस्यावश्यमङ्गीकारात् तात्पर्य्यलाघवेन व्रतादावपि तथात्वम् । “घटिकैकाप्यमावास्याप्रतिपत्सु न चेद्यदा । सर्व्वं तदासुरं दानं दैवे कर्म्मणि चोदितम् ॥” इति घटिकान्यूने निन्दामभिधाय घटिकालाभे कर्म्मार्हेति वक्तव्ये मुहूर्त्तमप्यमावास्याप्रतिपत्सु भवेद्यदा । तद्दानमुत्तमं ज्ञेयं शेषं पूर्ब्बं हि पूर्ब्बवदित्यनेन मुहूर्त्तलाभे कर्म्मार्हत्वज्ञापनाच्च । तत्रापि मुहूर्त्तः किं तत्तद्दिवारात्रिपञ्चदशांश उत दण्डद्वयम् । नाद्यः प्रतिदिनदिवारात्र्यो- र्ह्रासवृद्धिभ्यां तद्भागानामपि न्यूनाधिक्याद्विधि- भेदापत्तेः । नापि द्वितीयः दण्डद्वयस्य त्रिंशद् दण्डात्मकदिवारात्रिपञ्चदशांशस्य मुहूर्त्तत्वञ्च दण्डद्वयाधिकन्यूनकालानामपि त्रिंशद्दण्डा- धिकन्यूनदिवारात्रिपञ्चदशांशानां मुहूर्त्तत्व- प्रतिपादनेन विनिगमनाविरहात् किन्त्वन्त- रङ्गतया कर्म्माङ्गदिवारात्र्यन्यतरपञ्चदशांशस्य ग्रहणप्रसक्तौ अयनांशक्रमेणोत्तरायणपूर्ब्बाह- दिनमानसपादषड्विंशतिदण्डानां पञ्चदशां- शस्य पादोनदण्डद्वयस्य मुहूर्त्तत्वात्तद्दिनविहित- क्रियायां तावन्न्यूनकालस्यापि ग्रहणात् सर्व्वत्र न्यूनकालव्यवच्छेदे आवश्यकतया तस्यैव पादोन- दण्डद्वयात्मकस्य मुहूर्त्तस्य ग्रहणं लाघवात् । “यदा चतुर्द्दशीयामं तुरीयमनुपूरयेत् । अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते ॥” इति कात्यायनोक्तस्य चतुर्द्दशीसम्बन्धिदिन- चतुर्थयाममात्रव्याप्यमावास्यायां श्राद्धविधा- नस्य मत्स्यपुराणोक्तमुख्यापराह्णीयमुहूर्त्ताबाधेन विषयलाभाय पादोनदण्डद्बयात्मकमुहूर्त्तग्रहण- स्यावश्यकत्वाच्च । तादृशामावास्यायां तद- धिकमुख्यापराह्णासम्भवात् । तत्र च मुख्या- पराह्णीयपादोनदण्डद्वयात्मकदर्शलाभस्तु चत्वा- रिंशत्पलाधिकत्रयस्त्रिंशद्दण्डात्मकदिवस एव । अत एव स्मार्त्तभट्टाचार्य्यैरपि यदा चतुर्द्दशी- याममित्यस्य व्याख्याने तिथ्यादितत्त्वे तथा लिखितम् । न च निरूढलक्षणातो रूढशक्ते- र्बलवत्त्वात् । तास्तु त्रिंशत्क्षणस्ते तु मुहूर्त्तो द्वादशास्त्रियाम् । ते तु त्रिंशदहोरात्र इत्य- मरोक्तो द्वादशक्षणात्मकः अहोरात्रत्रिंशांशो दण्डद्वयरूपमुहूर्त्तो लाघवतः सर्व्वत्रानुगततया न्यूनकालव्यवच्छेदको वक्तव्य इति वाच्यं निरूढ- लक्षणापि शक्तितुल्येति शाब्दिकस्मरणात् स्मार्त्तत्वेनान्तरङ्गेति सन्निहिते बुद्धिरन्तरङ्गेति- न्यायाच्च निरूढलक्षणाया एव बलवत्त्वात् । दक्षिणः सपवित्रक इत्यत्र पवित्रपदस्य कुश- गतकोषोक्तरूढिशक्त्यपेक्षया विशिष्टकुशपत्र- द्बयगतकात्यायनोक्तनिरूढलक्षणाया इव । निरूढलक्षणायाः शक्तितुल्यत्वन्तु रूढशक्तेरिव शक्यार्थबाधज्ञानं शक्यसम्बन्धज्ञानञ्च विना पद- तात्पर्य्यज्ञानानुपदमेव पदार्थोपस्थापकत्वात् । सा च निरूढलक्षणा क्वचित्तात्पर्य्यबोधक- शास्त्रात् क्वचिच्चार्षप्रयोगतोऽनुमानादपि निर्णी यते । वस्तुतस्तु द्युनिशोः पञ्चदशांशाश्रित- स्मृत्युक्तनिरूढमुहूर्त्तपदलक्षणा विनिगमना- विरहगौरवाभ्यामेव कुण्ठिता अतोऽत्यन्तन्यून- पादोनदण्डद्वयात्मकमुहूर्त्तग्रहणं अशक्यमेव । अथात्यन्तन्यूनतया सर्व्वानुगमाय तद्ग्रहणमिति चेत् अत्यन्ताधिकतया सपाददण्डद्वयात्मक- मुहूर्त्तस्यैव कुतो न ग्रहणं स्यात् तस्मात् “प्रभाते घटिकायुग्मं प्रदोषे घटिकाद्बयम् । दिनवत् सर्व्वकार्य्याणि कारयेन्न विचारयेत् ॥” इति लघुहारीतवचनत्रियामां रजनीं प्राहु स्त्यक्वाद्यन्तचतुष्टयम् । नाडीनान्तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञित इति ब्रह्मवैवर्त्तवचनयोरेक- दण्डद्वयात्मककाले घटिकापदनिरूढलक्षणासिद्धौ तया पर्य्यायद्वारा कोषोक्तरूठ्या च समञ्जसतः पार्व्वणयोग्यदण्डद्बयात्मककाल एव घठिका- पदादुपस्थाप्यते अतः सर्व्वसाधारण्येन न्यून- कालव्यवच्छेदाय सैव ग्राह्या लाघवात् । अतएव यदा चतुर्द्दशीयामं तुरीयमनुपूरये- दत्यत्र यदा यत्र दिने अमावास्यामुख्यापराह्णीय- दण्डद्वयान्यूनकालव्यापनं यथा स्यात्तथैव चतु- र्द्दशीयामं तद्युक्ततृतीययाममनुलक्षीकृत्य तत्र प्रवृत्य चतुर्थयामं पूरयेत् व्याप्नोतीत्यन्वयः । अन्यथा चतुर्द्दशमुहूर्त्ताधिकपूरणाभिधानं व्यर्थं स्यात् । एतेनैव दर्शश्राद्धेऽपि मुख्यापराह्णादरः कार्य्यः । प्रातःकालादिपञ्चधाविभागे कुत- पादिसंज्ञायाञ्च दिनमानपञ्चदशांशमुहूर्त्तस्यैव स्यैव ग्रहणम् । तद्बोधकशास्त्रसंवादात् । अत एकोदिष्टे दिनमानपञ्चदशांशमुहूर्त्तो योग्य- तया च न्यूनकालव्यवच्छेदको ग्राह्यः । कुतप रौहिणान्यतरमांत्रग्राहकयुक्तेः । एवं विशेषा- भिधानात् सुखरात्रौ दण्डमात्रं जन्माष्टम्पे- कादशीद्बादशीषु च कलाकाष्ठारूपोऽपि प्रति- ष्ठादौ तूक्तयुक्त्या । स्वयोग्यकाल एव न्यूनकाल- व्यवच्छेदको ग्राह्यः । ततश्च विशेषकालप्राप्त- कर्म्मतरकर्म्मणः प्रशस्तादिकाले स्वयोग्य- दण्डद्वयान्यूनकतिथिरेव ग्राह्येत्यनुगतविधिः सर्व्वसामञ्जस्यादिति तत्त्वम् । इति चन्द्रशेखर- वाचस्पतिकृतद्वैतनिर्णयः ॥



Correction: