शब्दकल्पद्रुमः
मुहेरः || पुं, (मुह्यति विचित्तीभवतीति । मुह + “मूलेरादयः ।” उणा० १ । ६२ । इति एरक् ।) मूर्खः । इति संक्षिप्तसारोणादिवृत्तिः ॥