वाचस्पत्यम्
मूत्र || खावे अद० चु० उभ० अक० सेट् । मूत्रयति ते अमुमूत्रत् त
वाचस्पत्यम्
मूत्र || न० मुत्र—अच् । प्रस्रावे उपस्यात् क्षरितजले अमरः ।
शब्दकल्पद्रुमः
मूत्रं || क्ली (मूत्र्यते इति । मूत्र + घञ् । लोका- श्रयत्वात् क्लीवत्वम् । यद्बा, सुच्यते त्यज्यते इति । मूच + “सिविमुच्योष्टेरू च ।” उणा० ४ । १६२ । इति ष्ट्रन् किद्भवति । टेरूकारादेशः ।)
उपस्थनिर्गतजलम् । तत्पर्य्यायः । प्रस्रावः २ । इत्यमरः । २ । ६ । ६७ ॥ मेहनम् ३ । इति जटाधरः ॥ गुह्यनिस्यन्दः ४ स्रवणम् ५ स्रवः ६ । इति राजनिर्घण्टः ॥ * ॥
(अस्योत्पत्ति- विषयो यथा, —
“आहारस्य रसः सारः सारहीनो मलद्रवः । शिराभिस्तज्जलं नीतं वस्तौमूत्रत्वमाप्नुयात् ॥” इति पूर्ब्बखण्डे चतुर्थेऽध्याये शार्ङ्गधरेणोक्तम् ॥ “विस्तिपूरणविक्लेदकृन्मूत्रम् ।” तथास्य क्षयवृद्धिलक्षणं यथा, —
“मूत्रक्षये वस्तितोदोऽल्पमूत्रता च ।” “मूत्रं मुहुर्मुहुः प्रवृत्तिं वस्तितोदमाध्मानश्च ।” इति सुश्रुते सूत्रस्थाने पञ्चदशेऽध्याये ॥ तथास्य दोषादि विकृतस्य परीक्षा लक्षणम् ॥ “वातेन पाण्डुरं मूत्रं रक्तनीलञ्च पित्ततः । रक्तमेव भवेद्रक्तात् धवलं फेनिलं कफात् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)
तस्योत्सर्गविधिर्यथा, —
“दिवा सन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्य्यान्मूत्रपुरीषे तु रात्रौ वै दक्षिणामुखः ॥” इति गारुडे ९४ अध्यायः ॥ अपि च । “मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः । दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥ इति मनुः । ४ । ५० ॥ “कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रे च गृही कुर्य्याद् यद्बा कर्णे समा- हितः ॥” इति यमः ॥ यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा अवगुण्ठित इति । कर्णे दक्षिणकर्णे । इति सांख्यायनः ॥ “छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्य्यात् प्राणबाधभयेषु च ॥ * ॥
न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे । न फालकृष्टे न जले न चित्यां न च पर्व्वते ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ॥ न नदीतीरमासाद्य न च पर्व्वतमस्तके । वाय्वग्निविप्रानादित्यमपः पश्यंस्तथेव गाः । न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्जनम् ॥” इति मनुः । ४ । ४५ — ४८ ॥ * ॥
“आहारनिर्हारविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्याः । वाग्गुप्तिकार्य्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्य्ये ॥” इति वशिष्ठः ॥ निर्हारो मूत्रपुरीषोत्सर्गः ॥ * ॥
“सोमाग्न्यर्काम्बुवायूनां पूज्यानाञ्च न संमुखे । कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥” इति विष्णुपुराणम् ॥ न च सोपानत्को मूत्रपुरीषे कुर्य्यादिति । इत्यापस्तम्बः । “करगृहीतपात्रेण कृत्वा मूत्रपुरीयके । मूत्रतुल्यन्तु पानीयं पीत्वा चान्द्रायणञ्चरेत् ॥” इति बृहम्मनुः ॥ * ॥
गृहीतजलपात्रस्य मूत्रोत्मर्गे दोषो यथा, —
“वारिपात्रं करे धृत्वा मूत्रं त्यजति यो नरः । सुरापात्रसमं पात्रं तज्जलं मदिरासमम् ॥” इति कर्म्मलोचनम् ॥ * ॥
सशब्दमूत्रस्य दोषो यथा, —
“निःस्वाः सशब्दमूत्राः स्युर्नृपा निःशब्दधारया । भोगाढ्याः समजठरा निःस्वाः स्युर्घट- सन्निभाः ॥” इति गारुडे ६३ अध्यायः ॥ * ॥
“विष्णुक्रान्ताजमूत्रेण चौरव्याव्रादिरक्षणम् ।” इति तत्रैव १८८ अध्यायः ॥ * ॥
अथ गोमूत्र- गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । लवणत्वम् । पित्तकारित्वम् । कटुत्वम् । लघुत्वम् । रूक्ष- त्वम् । कृम्युदरानाहशोथार्शोविषकुष्ठनाशि- त्वञ्च । इति राजवल्लभः ॥
शब्दकल्पद्रुमः
मूत्र || त् क प्रस्रावे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-उभ०-सक०-सेट् ।)
दीर्घी । मूत्रयति मूत्रापयति । इति दुर्गादासः ॥