वाचस्पत्यम्
मूत्रकृच्छ्र || न० । रोगभेदे “व्यायामतीक्ष्णौषधरूक्षमद्य- प्रसङ्गनृत्यद्रुतपृष्ठयानात् । आनूपषत्स्याध्यशनादनीर्णात् स्युर्मूत्रकृच्छ्राणि शृणां तथाष्टौ” भावप्र० ।
शब्दकल्पद्रुमः
मूत्रकृच्छ्रं || क्ली (मूत्रे कृच्छ्रम् । मूत्रजन्यं कृच्छ्रमिति वा ।)
रोगविशेषः । तत्पर्य्यायः । मूत्ररोघः २ अश्मरी ३ कृच्छ्रम् ४ । इति राजनिर्घण्टः ॥ * ॥
अथ मूत्रकृच्छ्राधिकारः । तत्र मूत्रकृच्छ्रस्य विप्रकृष्टं निदानमाह । “व्यायामतीक्ष्णौषधरूक्षमद्य- प्रसङ्गनृत्यद्रुतपृष्ठयानात् । आनूपमत्स्याध्यशनादजीर्णात स्युर्मूत्रकृच्छ्राणि नृणां तथाष्टौ ॥” तीक्ष्णौषधं राजिकाशूरणादियुक्तम् । रूक्षेति मद्यविशेषणम् । प्रसङ्गः सततं सेवा । नृत्यं नर्त्तनम् । नित्येति द्विविधः पाठः । द्रुतपृष्ठ- यानात् अश्वादिना गमनात् । आनूपं प्रचुर- जलदेशभवं भक्ष्यम् । अष्टौ वातिकपैत्तिक- श्लैष्मिकसान्निपातिकशल्यजपुरीषजशुक्रजाश्मरी जानि । तस्य संप्राप्तिपूर्ब्बकं लक्षणमाह । “पृथङ्मलाः स्वैः कुपिता निदानैः सर्व्वेऽथवा कोपमुपेत्य वस्तौ । मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ॥” तेषु वातिकमाह । “तीव्रा रुजो वङ्क्षणवस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् ।” तीव्रा मारणात्मिका वङ्क्षणावूरुमेढ्राणामन्त- रालसन्धी ॥ * ॥
पैत्तिकमाह । “पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ।” कृच्छ्रमिति क्रियाविशेषणम् ॥ श्लैष्मिकमाह । “वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ।” सपिच्छं पिच्छिलम् ॥ सान्निपातिकमाह । सर्व्वाणि रूपाणि च सन्निपातात् भवन्ति तत् कृच्छ्रतमं हि कृच्छ्रम् ॥” कृच्छ्रं मूत्रकृच्छ्रम् ॥ * ॥
शल्यजमाह । “मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा । मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम् ॥ वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्द्दिशेत् ।” मूत्रवाहिषु स्रोतःसु । शल्येन कण्टकेन । क्षतेषु सक्षतीकृतेषु अथवा अभिहतेषु मुद्गरादिभि- रभिहतेषु । तदाघातात् मूत्रमार्गाघातात् मूत्रकृच्छ्रं जायते । भृशदारुणं मारकं तस्य शल्यजस्य ॥ * ॥
पुरीषजमाह । “शकृतस्तु प्रतीघाताद्बायुर्विगुणतां गतः । आध्मानं वातशूलञ्च मूत्रकृच्छ्रं करोति च ॥” प्रतीघातात् निरोधात् । विगुणतां दुष्टताम् ॥ शुक्रजमाह । “शुक्रदोषैरुपहते मूत्रमार्गे विधारिते । सशुक्रं मूत्रयेत् कृच्छ्राद्वस्तिमेहनशूलवान् ॥” उपहते दूषिते ॥ * ॥
अश्मरीजमाह । अश्मरी- हेतुकञ्चापि मूत्रकृच्छ्रमुदाहृतम् । सुश्रुतैः शर्कराजमपि मूत्रकृच्छ्रमुक्तमत्र तु तस्य नव- संख्यानिरासार्थमश्मरीशर्करयोः साम्यमाह । “अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे । विशेषणं शर्करायाः शृणु कीर्तयतो मम ॥” सम्भवः कारणम् । “पच्यमानाश्मरी पित्ताच्छोष्यमाणा च वायुना । विमुक्तकफसन्धाना क्षरन्ती शर्करा मता ॥” पित्तेन पच्यमाना मूत्रशुक्रश्लेष्मसंहतिः प्रथमं पित्तेन बन्धनकर्म्मणा पच्यमाना । पश्चाद्बातेन शोषिता कफेनाश्लिष्टा अश्मरी । सैव विमुक्त कफसन्धाना त्यक्तकफाश्लेषा सती शर्करारूपा मूत्रमार्गात् क्षरन्ती शर्करा मता । एतावता किञ्चिदेव भेदः ॥ * ॥
शर्कराया उपद्रवानाह । “हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः । तया भवति मूर्च्छा च मूत्रकृच्छ्रञ्च दारुणम् ॥” शूलं कुक्षावित्यन्वयः । तया शर्करया ॥ * ॥
अथ मूत्रकृच्छ्रस्य चिकित्सा । “त्रिकण्टकारग्वधदर्भकाश- यवासधात्रीगिरिभेदपथ्याः । विघ्नन्ति पीता मधुनाश्मरीञ्च समीपमृत्योरपि मूत्रकृच्छ्रम् ॥” त्रिकण्टादिक्वाथः ॥ १ ॥ “एलाश्मभेदकशिलाजतुगोक्षुराणा- मेर्व्वारुबीजलवणोत्तमकुङ्कुमानाम् । चूर्णानि तण्डुलजले तुलितानि पीत्वा प्रत्यक्षमृत्युरपि जीवति मूत्रकृच्छ्री ॥” एलादिचूणम् ॥ २ ॥ “अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम् । मूत्रकृच्छ्रं निहन्त्याशु संलीढं दिवसत्रयात् ॥ ३ ॥ गुडेन मिश्रितं क्षीरं कटूष्णं कामतः पिबेत् । मूत्रकृच्छ्रेषु सर्व्वेषु शर्करायाञ्च नित्यश ॥ ४ ॥ धात्रीरसञ्चेक्षुरसं पिबेद्वा कृच्छ्रे सरक्ते मधुना निमिश्रम् । शल्याभिघातोत्थितमूत्रकृच्छ्रे कार्य्या क्रिया मारुतकृच्छ्रतुल्या ॥ ५ ॥ क्वाथो गोक्षुरबीजस्य यवक्षारसमन्वितः । पीतः प्रशमयत्येव कृच्छ्रं विड्धारणोत्थितम् ॥ ६ ॥ त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम् । वारिणा लवणीकृत्य पिबेन्मूत्ररुजापहम् ॥” ७ ॥ कोलं वदरम् । गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम् । पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रहरं परम् ॥ ८ ॥ सपादशाणतुलितो यवक्षारः सितायुतः । भक्षितो नाशयत्येव मूत्रकृच्छ्रं न संशयः ॥ ९ ॥ द्राक्षासितोपलाकल्कः पीतः कर्षमितो नरैः । मस्तुना पलमात्रेण मूत्रकृच्छ्रं व्यपोहति ॥ १० ॥ समूलगोक्षुरक्वाथः सितामाक्षिकसंयुतः । नाशयेन्मूत्रकृच्छ्राणि तथैवोष्णसमीरणम् ॥” ११ ॥ उष्णसमीरणं उष्णवातं मूत्राघातविशेषम् । इति भावप्रकाशः ॥ (तथास्य चिकित्सा- प्रकारान्तरम् । “सुशीतलं जलं कर्षमात्रं स्यात् मूत्रकृच्छ्रहृत् । दध्यम्बुना च संमिश्रमयश्चूर्णं सुखप्रदम् ॥ मूत्रकृच्छ्रे यवक्षारचूर्णं हिङ्गुप्रयोजितम् । कुष्माण्डञ्च समादाय शर्करासहितं पिबेत् ॥ यो हि त्रिदोषसम्भूतमूत्रकृच्छ्रनिवारणः ॥” “आरग्वधफलं मूलं दुरालभा धान्यकशता- वर्य्यः । पाषाणभेदपथ्ये क्वाथोऽयं मूत्रकृच्छ्रे स्यात् ॥” इति हारीते चिकित्सितस्थाने २९ अध्याये ॥ अथात्र पथ्यानि । “अथो यथादोषमयं गणोऽपि पुरातना लोहितशालयश्च । तक्रं पयो दध्यपि गोप्रसूतं धन्वामिषं मुद्गरसाः सिता च ॥ पुराणकुष्माण्डफलं पटोलं महार्द्रकं गोक्षुरकः कुमारी । गुवाकखर्ज्जू रकनारिकेल- तालद्रुमाणाञ्च शिरांसि पथ्या ॥ तालास्थिमज्जात्रपुषं त्रुटिश्च शीतानि पानान्यशनानि चापि । प्रनीरनीरं हिमबालुका च मित्रं नृणां स्यात् सति मूत्रकृच्छ्रे ॥” अथापथ्यानि । “मद्यं श्रमं निधुवनं गजवाजियानं सर्व्वं विरुद्धमशनं विषमाशनञ्च । ताम्बूलमत्स्यलवणार्द्रकतैलभृष्टं पिन्याकहिङ्गुतिलसर्षपवेगरोधान् ॥ माषान् करीरमतितीक्ष्ण विदाहिरूक्ष- मम्लञ्च मुञ्चतु जनः सति मूत्रकृच्छ्रे ॥” इति वैंद्यकपथ्यापथ्यविधिग्रन्थे मूत्रकृच्छ्राधि- कारे ॥)