वाचस्पत्यम्
मूत्रदोष || पु० मूत्रस्य दोषो यस्मात् दुष—घञ् ६ त० । प्रमेहरोगे राजनि० ।
शब्दकल्पद्रुमः
मूत्रदोषः || पुं, (मूत्रस्य दोषो यस्मात् ।)
प्रमेहः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । सूत्र- स्थाने ३८ अः । “परुषकादिरित्येष गणोऽनिलविनाशनः । मूत्रदोषहरो हृद्यः पिपासावो रुचिप्रदः ॥” मूत्राघातादिः । अस्य चिकित्सा यथा, —
“निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् । मूत्रदोषहरं कल्कमथवा क्षौद्रसंयुतम् ॥” “अत ऊर्द्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् । स्नेहस्वेदोपपन्नानां हितन्तेषु विरेचनम् ॥ ततः संशुद्धदेहानां हिताश्चोत्तरवस्तयः ॥” “क्षौद्रार्द्धपात्रं दत्त्वा तु पात्रन्तु क्षीरसर्पिषोः । स्वयङ्गुप्ताफलञ्चैव तथैव क्षुरकस्य च ॥ पिप्पलीचूर्णसंयुक्तमर्द्धभागं प्रदापयेत् । एतदैकध्यमानीय खजेनाभिप्रमन्थयेत् ॥ तस्य पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् । एतत्सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा ॥ मूत्रदोषान् जयेत् सर्व्वानन्ययोगैः सुदुर्ज्जयान् । जयेत् शोणितदोषांश्च बन्ध्या गर्भं लभेत च । नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ॥” इत्युत्तरतन्त्रेऽष्टपञ्चाशत्तमेऽध्याये सुश्रुतेनोक्तम् ॥)