संस्कृत-शब्दकोशः

मूत्रदोष मूत्रपतन

मूत्रनिरोध

वाचस्पत्यम्

मूत्रनिरोध ||‍ पु० मूत्रं निरुणद्धि नि + रुध—अण् । मूत्रप्रति- बन्धकरोगे ।


शब्दकल्पद्रुमः

मूत्रनिरोधः || पुं, (मूत्रस्य निरोधः । यद्बा मूत्रं निरुणद्धीति । रुध् + अण् ।)
मूत्रप्रतिबन्धक- रोगविशेषः । अस्य चिकित्सा यथा, —
“पिष्टं वै मालतीमूलं ग्रीष्मकाले समाहृतम् । साधितं छागदुग्धेन पीतं शर्करयान्वितम् । हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्कराम् ॥” इति गारुडे १९१ अध्यायः ॥ (चिकित्सान्तरं यथा, —
“तैलेन पद्मिनीकन्दं पक्वगोमूत्रमिश्रितम् । पिबेन्मूत्रनिरोधे तु सतीव्रवेदनान्विते ॥” इति हारीते चिकित्सितस्थाने त्रिंशेऽध्याये ॥)



Correction: