संस्कृत-शब्दकोशः

मूत्राघात मूत्रित

मूत्राशय

वाचस्पत्यम्

मूत्राशय ||‍ पु० ६ त० । नामेरधोदेशे वस्तिनामकस्थाने भावप्र० ।


शब्दकल्पद्रुमः

मूत्राशयः || पुं, (मूत्रस्याशयः आधारः ।)
नाभे- रधोदेशः । तत्पर्य्यायः । मूत्रपुटम् २ वस्तिः ३ । इति हेमचन्द्रः । २ । २७० ॥ (अथास्य विषयः । “मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च ॥” इति सुश्रुते उत्तरतन्त्रे ५५ अध्यायः ॥ यथा च तत्रैव निदानस्थाने ३ अध्याये । “एकसम्बन्धिनो ह्येते गुदास्थिविवरस्थिताः । मूत्राशयो मलाधारः प्राणायतनमुत्तमम् ॥”)



Correction: