संस्कृत-शब्दकोशः

मूर्ख मूर्खभ्रातृक

मूर्खता

शब्दकल्पद्रुमः

मूर्खता || स्त्री (मूर्खस्य भावः । मूर्ख + “तस्य भावस्त्वतलौ ।” ५ । १ । ११९ । इति तल् टाप् ।)
मूर्खत्वम् । यथा, —
“अदाता वंशदोषेण कर्म्मदोषाद्दरिद्रता । उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥” इति चाणक्यम् ॥ “अष्टम्यां नारिकेलभक्षणे मूर्खत्वं यथा, —
“कलङ्की जायते विल्वे तिर्य्यग् योनिश्च निम्बके । ताले शरीरनाशः स्यान्नारिकेले च मूर्खता ॥” इति तिथ्यादितत्त्वम् ॥



Correction: