वाचस्पत्यम्
मूर्च्छा || स्त्री मुर्च्छ—भावे अङ् । १ मोहे अमरः । २ अनिद्रा- यामपि बाह्येन्द्रिय व्यापारशून्यावस्थायां “क्षीणस्य बहु- दोषस्य विरुद्धाहारसेविनः । वेगाघातादभिघातात् हीनसत्त्वस्य वा पुनः । करणायतनेषूग्रा याह्येष्वाभ्य न्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः” भावप्र० । ३ वृद्धौ च ।
शब्दकल्पद्रुमः
मूर्च्छा || स्त्री (मूर्च्छ् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः टाप् ।)
संमोहः । तत्पर्य्यायः । कश्मलम् २ मोहः ३ । इत्यमरः । २ । ८ । १०९ । मूर्च्छनम् ४ । इति शब्दरत्नावली ॥ मूर्च्छायः ५ । अथ मूर्च्छाधिकारः । तत्र मूर्च्छाया निदानपूर्ब्बिकां संप्राप्तिमाह । “क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः । वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ॥ करणायतनेषूग्रा वाह्येष्वभ्यन्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥” बहुदोषस्य अधिकदोषस्य । न त्वनेकदोषस्य तदा मूर्च्छा त्रिदोषजैव स्यात् तथवास्तु को दोषः तन्न । पृथग्दोषजानां मूर्च्छानां वक्ष्य- माणत्वात् । वेगाघातात् मलादौ अभिघातात् लगुडादिना हीनसत्त्वस्य स्वल्पसत्त्वगुणस्य अर्थादधिकतमोगुणस्य यत उक्तं मूर्च्छा पित्त- तमःप्रायेति करणायतनेषु करणं मनस्तस्या- यतनेषु स्थानेषु वाह्येषु कर्म्मेन्द्रियेषु । अभ्यन्त- रेषु बुद्धीन्द्रियेषु ॥ * ॥
सामान्यं लक्षणमाह । “संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः । तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥ सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् । मोहो मूर्च्छेति तां प्राहुः सड्विधा सा प्रकी- र्त्तिता ॥” तमोगुणः अज्ञानहेतुः । अभ्युपैति आगच्छति । सुखदुःखव्यपोहकृत् सुखदुःखज्ञाननाशकरम् । नष्टे सुखदुःखज्ञाने नरः काष्ठवत् पतति तां मोहो मूर्च्छेति प्राहुरित्यन्वयः । मूर्च्छाया मूर्च्छायोऽपि पर्य्यायः । यत उक्तम् । “संज्ञोपघातो मूर्च्छायो मूर्च्छा स्यान्मूर्च्छनं तथा । कश्मलं प्रलयो मोहः संन्यासस्तु मृतोपमः ॥” इति ॥ षडपि मूर्च्छा विवृणोति । “वातादिभिः शोणितेन मद्येन च विषेण च । षट्स्वप्येतासु पित्तन्तु प्रभुत्वेनावतिष्ठते ॥” यत उक्तम् । मूर्च्छा पित्ततमःप्रायेति ॥ * ॥
पूर्ब्बरूपमाह । “हृत्पीडा जृम्भणं ग्लानिः संज्ञादौर्ब्बल्यमेव च । सर्व्वासां पूर्ब्बरूपाणि यथास्वं ता विभावयेत् ॥” तत्र वातिकं मूर्च्छायमाह । “नीलं वा यदि वा कृष्णमाकाशमथवारुणम् । पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते ॥ वेपथुश्चाङ्गमर्द्दश्च प्रपीडा हृदयस्य च । कार्श्यं श्यावारुणा छाया मूर्च्छाये वातसम्भवे ॥” नीलं नीलवर्णम् । कृष्णं कज्जलाभम् । अरुणं अव्यक्तरागम् । तमः प्रविशति मूर्च्छति । श्यावारुणा च्छाया गात्रस्य ॥ * ॥
पैत्तिकमाह । “रक्तं हरितवर्णं वा वियत् पीतमथापि वा । पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ॥ सपिपासः ससन्तापो रक्तपीताकुलेक्षणः । सम्भिन्नवर्च्चाः पीताभो मूर्च्छाये पित्तसम्भवे ॥” श्लैष्मिकमाह । “मेघसङ्काशमाकाशं तमोभिर्व्वा घनैर्वृतम् । पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ॥ गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्म्मणा । सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे ॥” मेघसङ्काशं शुभ्रमेघसङ्काशमित्यर्थः । यत आह सुश्रुतः । “कफेन पश्येद्रूपाणि श्वेताभ्रप्रतिमानि तु ।” घनैर्निविडैस्तमोभिः । गुरुभिरङ्गैरुपलक्षितः । सुश्रुतेन मूर्च्छायः षड्विघ उक्तः ॥ * ॥
चरकस्तु सान्निपातिकमपि मूर्च्छायमाह । “सर्व्वाकृतिः सन्निपातादपस्मार इवागतः । स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ॥” अपस्मार इव तेन महताभिघातेन पतात चिरेण प्रतिबुध्यते । तर्हि तयोः को भेद इत्यत आह । स सान्निपातिको मूर्च्छायः विना बीभत्स- चेष्ठितैः फेनवमनदन्तघट्टनाक्षिविकृत्यादिभिः विना पातयति ॥ * ॥
रक्तजाया मूर्च्छाया निदानमाह । “पृथिव्यम्भस्तमोरूपं रक्तगन्धस्तदन्वयः । तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः ॥” तमोरूपं तमोबहुलम् । मानवाश्च ये तामसाः न तु सात्त्विका राजसाश्च । अत्रैके वदन्ति नैषा युक्तिः समीचीना तर्हि चम्पकादिगन्धे- नापि मूर्च्छा प्रसज्येत तत्रापि गन्धस्य पार्थिव- त्वात् । अत आह । “द्रव्यस्वभाव इत्येके यद्दृष्ट्वापि विमुह्यति ।” अत्राह भोजः । “दर्शनादसृजस्तज्जाद्गन्धाच्चैव प्रमुह्यति ॥” रक्तेन मूर्च्छितस्य लक्षणमाह । “स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासस्तु मूर्च्छितः ।” मद्यजविषजयोर्निदानमाह । “गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः । त एव तस्मात्ताभ्यान्तु मोहौ स्यातां यथेरितौ ॥” ये गुणा लघुरूक्षासु विशदव्यवायितीक्ष्णा- विकासिसूक्ष्मोष्णानिर्द्देश्यरसत्वादयः । तैलादौ द्रव्ये व्यस्ताः तीव्राश्च सन्ति त एव गुणाः विषमद्ययोस्तु तीव्रतरत्वेन स्थिताः । तत्रापि भेदः । त एव मद्ये दृश्यन्ते विषे तु बलवत्तरा इति ॥ * ॥
मद्यजाया मूर्च्छाया लक्षणमाह । “मद्येन प्रलपन् शेते नष्टविभ्रान्तमानसः । गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ॥” नष्टविभ्रान्तमानसः नष्टं सर्व्वथा स्मृतिहीनं विभ्रान्तं रज्जौ सर्पज्ञानयुक्तं मानसं यस्य सः । जरां जीर्णताम् । तत् मद्यम् ॥ * ॥
विषजाया लक्षणमाह । “वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छिते । वेदितव्यं तीव्रतरं यथास्वं विषलक्षणम् ॥” विषस्य मूलकन्दफलपत्रक्षीरादिभेदभिन्नस्य यथा स्वकं स्वकं लक्षणमुक्तं सौश्रुते कल्पस्थाने तल्ल- क्षणं मद्यापेक्षया तीव्रतरं वेदितव्यम् । ननु संज्ञानाशेन साधर्म्म्यान्मूर्च्छाभ्रमतन्द्रादीनां को भेद इत्यत आह । “मूर्च्छा पित्ततमःप्रायारजःपित्तानिलाद्भ्रमः । तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ॥” रजःपित्तानिलाद्भ्रम इति नात्र समुच्चयः । केवलपित्तज्वरे भ्रमस्योक्तत्वात् । भ्रमश्चक्रारूढ- स्येव भ्रमद्वस्तुज्ञानं स्वदेहस्य भ्रमत इव ज्ञानं वा ॥ * ॥
तन्द्राया लक्षणमाह । “इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः । निद्रार्त्तस्येव यस्येहा तस्य तन्द्रां विनिर्द्दिशेत् ॥” इन्द्रियाणामर्थः प्रयोजनं येषु तेषु अर्थाद् विषयेषु असंवित्तिः असम्यक् ज्ञानम् । इति इन्द्रियार्थासम्यग्ज्ञानादि । निद्रायां प्रबुद्धस्य क्लमाभावस्तन्द्रायान्तु प्रबोधितस्यापि क्लम इत्य- नयोर्भेदः ॥ * ॥
क्लमस्य लक्षणमाह । “योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः । क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ॥” इन्द्रियार्थप्रबाधकः इन्द्रियाणां बुद्धीन्द्रियाणां कर्म्मेन्द्रियाणाञ्च अर्थः प्रयोजनं विषयग्रहणं तस्य प्रबाधकः आवल्येन ॥ * ॥
निद्रालक्षण- माह । “यदा तु मनसि क्लान्ते कर्म्मात्मानः क्लमा- न्विताः । विष्येभ्यो निवर्त्तन्ते तदा स्वपिति मानवः ॥” क्लान्ते ग्लाने श्रान्त इति यावत् । कर्म्मात्मानः कर्म्मेन्द्रियाणि ज्ञानेन्द्रियाणि च क्लमान्विताः श्रान्ताः ॥ * ॥
संन्यासस्य संप्राप्तिपूर्ब्बकं लक्षणमाह । “वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः । संन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः ॥ स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः । प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यःफलां क्रियाम् ॥” आक्षिप्य विनाश्य संन्यस्यन्ति मूर्च्छयन्ति । प्राणायतनं हृदयम् । संन्यस्तः मूर्च्छितः । काष्ठीभूतः क्रियारहितः । अतएव मृतोपम इति । सद्यःफलां क्रियां सूचीव्यधनजनावपीडन- कपिकच्छुघर्षणवृश्चिकादिदंशनादिरूपाम् ॥ * ॥
संन्यासस्य मूर्च्छातो भेदमाह । “दोषेषु मदमूर्च्छाया गतवेगेषु देहिनः । स्वयमप्युपशाम्यन्ति संन्यासो नौषधैर्विना ॥” मदमूर्च्छायाः मदः अप्रवृद्ध उन्मादः । मूर्च्छायाः मूर्च्छाः ॥ * ॥
अथ मूर्च्छायाश्चिकित्सा । “सेकावगाहा मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च । शीतानि पानानि च गन्धवन्ति सर्व्वासु मूर्च्छास्वनिवारितानि ॥” मणयश्चन्द्रकान्तादयः । हाराः मुक्तादिहाराः । शीताः प्रदेहाः सकर्पूरचन्दनाद्यनुलेपनानि । शीतानि पानानि सितामलकादिपानकानि । गन्धवन्ति कर्पूरादिसुगन्धवन्ति । सर्व्वासु मूर्च्छा- स्वनिवारितानि । अस्यायमभिप्रायः । सेकादी- न्यासु मूर्च्छासु हितान्येव किन्तु वातश्लेष्मजा- स्वपि मूर्च्छासु न निवारितानि । तत्रापि पित्तस्य प्राधान्यात् । “सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च । तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याः ससतीनमुद्गाः ॥” सतीनः कलायः । “कोलमज्जोषणोशीरं केशरं शीतवारिणा । पीतं मूर्च्छा जयेल्लीढा कृष्णा वा मधुसंयुता ॥ शीतेन तोयेन भृशं मृणालं कृष्णाञ्च पथ्यां मधुनावलिह्यात् । कुर्य्याच्च नासावदनावरोधं क्षीरं पिबेद्वाप्यथ मानुषीणाम् ॥ द्राक्षासितादाडिमलाजवन्ति कह्वारनीलोत्पलपद्मवन्ति । पिबेत् कषायाणि च शीतलानि पित्तज्वरं यानि च यापयन्ति ॥ शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः । अञ्जनं स्यात् प्रबोधाय सरसोनशिलावचैः ॥” अन्यच्च । “अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः । प्रमोहद्रोहि भवति भाषितं भिषजांवरैः ॥” शिला मनःशिला । उषणं मरीचम् । “मधूकसारसिन्धूत्थवचोषणकणाः समाः । श्लक्ष्णं पिष्ट्वाम्भसा नस्यं कुर्य्यात् संज्ञाप्रबो- धनम् ॥” अथ रक्तजादीनां मूर्च्छानां चिकित्सा । “रक्तजायान्तु मूर्च्छायां हितः शीतकृइया- विधिः । मद्यजायां पिबेन्मद्यं निद्रां सेवेत वा सुखम् । विषजानां विषघ्नानि भेषजानि प्रयोजयेत् ॥” अथ संन्यासस्य चिकित्सा । “प्रभूतदोषस्तमसोऽतिरेकात् संमूर्च्छितो नैव विबुध्यते यः । संन्यस्तसंज्ञः स हि दुश्चिकित्स्यो नरो भिषग्भिः परिकीर्त्तितोऽसौ ॥ अञ्जनान्यवपीडश्च धूमाः प्रधमनानि च । सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ॥ लुञ्चनं केशलोम्नाञ्च दन्तैर्दशनमेव च । आत्मगुप्तावघर्षश्च हितस्तस्य प्रबोधने ॥” अवपीडः कल्कीकृतौषधरसस्य नासापुटे दानम् । तस्य संन्यस्तस्य ॥ * ॥
अथ मूर्च्छायां रसः । “कणामधुयुतं सूतं मूर्च्छायां प्राशयेद् भिवक् । शीतसेकावगाहादि सर्व्वाङ्गे पीडनं हठात् ॥” सूतं मारितम् । “ताम्रचूर्णं समोशीरं केशरं शीतवारिणा । पीतं मूर्च्छां द्रुतं हन्यात् वृक्षमिन्द्राशनिर्यथा ॥” ताम्रचूर्णं मारितताम्रचूर्णम् ॥ * ॥
अथ भ्रमस्य चिकित्सा । पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये । पथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ॥ शुण्ठीकृष्णाशताह्वानां साभयानां पलं पलम् । गुडस्य षट् पलान्येषा गुटिका भ्रमनाशिनी ॥ ताम्रं दुरालभाक्वाथैः पीतन्तु घृतसंयुतम् । निवारवेद्भ्रमं शीघ्रं तं यथा शम्भुभाषितम् ॥” अथ तन्द्राया अतिनिद्रायाश्चिकित्सा । “तुरङ्गलालालवणोत्तमेन्दु- मनःशिलामागधिकामधूनि । नियोजितान्यक्ष्णि विनिश्चयेन तन्द्रां सनिद्रां विनिवारयन्ति ॥” इन्द्रः कर्पूरम् । “सैन्धवं श्वेतमरिचं सर्षपः कुष्ठमेव च । वस्तमूत्रेण संपिष्टं नस्यं तन्द्रानिवारणम् ॥” श्वेतमरिचं सिग्रुबीजम् । “शुण्ठीकणागस्तिरसोषणानि नस्येन तन्द्राधिजयोल्वणानि । क्षुद्रामृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात् ॥” शिवा हरीतकी । इति मूर्च्छाभ्रमतन्द्राति- निद्रासंन्यासाधिकारः । इति भावप्रकाशः ॥ (अथास्यां पथ्यविधिः । “सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलश्च । शीतानि पानानि च गन्धवन्ति धारागृहं शीतमरीचिरोचिः ॥ धूमोऽञ्जनं लावणमस्रमोक्षो दाहश्च सूचीपरितोदनानि । रोम्नां कचानामपि कर्षणानि नखान्तपीडा दशनोपदंशः ॥ नासामुखद्बारमरुन्निरोधो विरेचनच्छर्द्दनलङ्घनानि । क्रोधो भयं दुःखकरी च शय्या कथा विचित्रा च मनोहरा च ॥ छायानभोऽम्भःशतधौतसर्पि- र्मृदूनि तिक्तानि च लाजमण्डः । जीर्णा यवा लोहितशालयश्च कौम्भं हविर्मुद्गसतीनयूषाः ॥ धन्वोद्भवा मांसरसाश्च रागाः सषाडवा गव्यपयः सिता च । पुराणकुष्माण्डपटोलमोच- हरीतकीदाडिमनारिकेलम् ॥ मधूकपुष्पाणि च तण्डुलीय उपोदिकान्नानि लघूनि चापि । प्रनीरनीरं सितचन्दनानि कर्पूरनीरं हिमवालुका च ॥ अत्युच्चशब्दोऽद्भुतदर्शनानि गीतानि वाद्यान्यपि चोत्कटानि । श्रमः स्मृतिश्चिन्तनमात्मबोधा- धैर्य्यञ्च मूर्च्छावति पथ्यवर्गः ॥” अथापथ्यविधिः । “ताम्बूलं पत्रशाकानि दन्तघर्षणमातपम् । विरुद्धान्यन्नपानानि व्यवायं स्वेदनं कटुम् । तृड्निद्रयोर्वेगरोधं तक्रं मूर्च्छामयी त्यजेत् ॥” इति वैद्यकपथ्यापथ्यविधौ मूर्च्छाधिकारे ॥)