वाचस्पत्यम्
मूर्त्तिमत् || पु० मूर्त्तिरस्त्यस्य मतुप् । १ देहे । २ आकारयुक्ते ३ काठिन्यवति च त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
मूर्त्तिमत् || क्ली (मूर्त्तिः काठिन्यमस्यास्ति । मूर्त्ति + मतुप् ।) शरीरम् । इति हेमचन्द्रः । ३ । २२७ ॥