संस्कृत-शब्दकोशः

मूर्तिमत् मूर्द्धकर्णी

मूर्त्तिमत्

शब्दकल्पद्रुमः

मूर्त्तिमान् || [त्] त्रि, (मूर्त्तिरस्यास्ति । मूर्त्ति + मतुप् ।)
मूर्त्तिविशिष्टः । यथा, —
“मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्त्तिमान् ।” इत्यादि श्रीभागवतम् ॥ (यथा च रघौ । १२ । ६४ । “हृदयं स्वयमायातं वैदेह्या इव मूर्त्तिमत् ।” कुशपुत्रः । यथा, हरिवंशे । २७ । १२ । “कुशपुत्रा बभूवुर्हि चत्वारो देववर्च्चसः । कुशिकः कुशनाभश्च कुशाम्बो मूर्त्तिमांस्तथा ॥” स्वियां ङीप् । यथा, महाभारते । ३ । १०८ । १४ । “दर्शयामास तं गङ्गा तदा मूर्त्तिमती स्वयम् ।”)



Correction: