शब्दकल्पद्रुमः
मूर्द्धाभिषिक्तः || पुं, क्षत्त्रियः । राजा । इत्यमरः । ३ । ३ । ६१ ॥ मूर्द्धन्यभिषिक्तो मूर्द्धाभिषिक्तः राज्यारोपणसमये प्रथमः क्षत्त्रियो मूर्द्धाभि- षिक्तः । तत्प्रभवत्वात् योग्यतयानभिषिक्तोऽपि मूर्द्धाभिषिक्तः । (यथा, भागवते । ९ । १५ । ४१ । “राज्ञो मूर्द्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः । तीर्थसंसेवया चांहो जह्याङ्गाच्युतचेतनः ॥”)
वर्णसङ्करविशेषः । स तु विप्रात् क्षत्त्रियायां जातः ॥ प्रधानः । इति भरतः ॥ मन्त्री । इति मेदिनी । ते, २३२ ॥