संस्कृत-शब्दकोशः

मूलकर्मन् मूलकार

मूलकर्म्म

शब्दकल्पद्रुमः

मूलकर्म्म || क्ली (मूलञ्च तत् कर्म्म चेति ।)
ओष- ध्यादिमूलेन यत् त्रासनोच्चाटनस्तम्भनवशी- करणादिकर्म्म । जो इति ख्यातम् । इति भरतः ॥ टोना इति मुकुटः ॥ तत्पर्य्यायः । कार्म्मणम् २ । इत्यमरः । ३ । २ । ४ ॥ ऊनपञ्चाशदुपपात- कान्तर्गतोपपातकविशेषः । यथा, —
“सर्व्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम् । हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म्म च ॥” इति मनुः । ११ । ६४ ॥ “मन्त्रौषधादिना वशीकरणम् ।” इति मूल- कर्म्मशब्दव्याख्यायां कुल्लूकभट्टः ॥



Correction: