वाचस्पत्यम्
मूलत्रिकोण || न० “सिंहो वृषश्च मेषश्च कन्या घन्वी धटोघटः । “अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात्” रव्यादीनां क्रमेण सिंहादिषु राशिषु । तदंशाश्च “रवि- भौमजीवभार्गवशनैश्चराणां त्रिकोणभागाः स्युः । नस्न- रविटिक्तिथिनस्यराज्ञेन्द्वो दिग्भांशकाः सूच्चात्” ज्यो० त० ।
शब्दकल्पद्रुमः
मूलत्रिकोणं || क्ली (मूलञ्च तत्त्रिकीणञ्चेति ।)
अर्कादिग्रहाणां राशिरूपगृहविशेषः । स तु रवेः सिंहः । चन्द्रस्य वृषः । कुजस्य मेषः । बुधस्य कन्या । गुरोर्धनुः । भृगोस्तुला । शनेः कुम्भः । यथा, —
“सिंहो वृषश्च मेषश्च कन्या धन्वी धटो घटः । अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात् ॥” अथ मूलत्रिकोणांशव्यवस्था । “रविभौमजीवभार्गवशनैश्चराणां त्रिकोण- भागाः स्युः । नखरविदिक्तिथिनखरा ज्ञेन्दोर्दिग्भांशका सूच्चात् ॥” इति ज्योतिस्तत्त्वम् ॥