वाचस्पत्यम्
मूलपोती || स्त्री पू—तच् गौ० ङीष् मूलं प्रधाना पोती । पूति- कायाम् राजनि० ।
शब्दकल्पद्रुमः
मूलपोती || स्त्री (मूलप्रधाना पोती ।)
पूतिका- शाकभेदः । तत्पर्य्यायः । क्षुद्रवल्ली २ पोतिका ३ क्षुद्रपोतिका ४ क्षुपोपोदकनाम्नी ५ वल्लि- शाकटपोतिका ६ । अस्या गुणाः । त्रिदोष- घ्नत्वम् । वृष्यत्वम् । बल्यत्वम् । लघुत्वम् । बल- पुष्टिकारित्वम् । रुच्यत्वम् । जठरानलदीपन- त्वञ्च । इति राजनिर्घण्टः ॥