वाचस्पत्यम्
मूषक || पुंस्त्री० मूष—ण्वुल् स्त्रीत्वे टाप् अत इत्त्वम् । उन्दुरौ शब्दच० ।
शब्दकल्पद्रुमः
मूषकः || पुं-स्त्री, (मूष + स्वार्थे कन् ।)
उन्दुरुः । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । ३३ । १९ । “रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः । मूषकैः परिधावद्भिरुद्विलैरावृतानि च ॥”)