संस्कृत-शब्दकोशः

मूषिक मूषिका

मूषिकपर्णी

वाचस्पत्यम्

मूषिकपर्ण्णी ||‍ स्त्री मूषिककर्ण इव पर्णान्यस्याः जलजतृणभेदे शब्दर० ।


शब्दकल्पद्रुमः

मूषिकपर्णी || स्त्री (मूषिककर्णवत् पर्णाणि यस्याः ।)
र्जलजतृणविशेषः । इँदुरकाणीपाना इति भाषा । (यथा, चरके विमानस्थाने सप्तमे- ऽध्याये । “मूषिकपर्णीं समूलाग्रप्रतानामपहृत्य ॥”)
तत्पर्य्यायः । चित्रा २ उपचित्रा ३ न्यग्रोधी ४ द्रवन्ती ५ सम्बरी ६ वृषा ७ प्रत्यक्श्रेणी ८ सुतश्रेणी ९ रण्डा १० । इत्यमरः । २ । ४ । ८८ ॥ पुत्त्रश्रेणी ११ आखुपर्णिका १२ वृषपर्णी १३ आखुपर्णी १४ मूषिका १५ फञ्जिपत्रिका १६ । इति रत्नमाला ॥ मूषिपर्णिका १७ सञ्चित्रा १८ मूषीकर्णी १९ सुकर्णिका २० । इति शब्द- रत्नावली ॥



Correction: