शब्दकल्पद्रुमः
मृगघर्म्मजं || क्ली (मृगघर्म्मात् मृगनाभिघर्म्मात् मृगगन्धवत् जायते इत्यर्थः । जन् + डः ।) जवादिनामकगन्धद्रव्यम् । इति राजनिर्घण्टः ॥ मृगघर्म्मजाते, त्रि ॥