वाचस्पत्यम्
मृगणा || स्त्री मृग—युच् टाप् । नष्टद्रव्यस्यान्वेषणे अमरः ।
शब्दकल्पद्रुमः
मृगणा || स्त्री (मृग + युच् ।) अपहृतद्रव्यस्यान्व- षणम् । यथा, — “संवीक्षणं विचयनं मार्गणं मृगणा मृगः ।” इत्यमरः । ३ । २ । ३० ॥