संस्कृत-शब्दकोशः

मृगनाभिजा मृगपति

मृगनेत्रा

वाचस्पत्यम्

मृगनेत्रा ||‍ स्त्री मृगो मृगशिरो नक्षत्रं नेता प्रापकः सर्व- रात्रिप्रकाशकत्वात् यत्र अच्समा० । सौरमार्गस्य किञ्चि- दधिकत्रयोविंशदिनावधिशेषपर्य्यन्तरात्रिषु ।


शब्दकल्पद्रुमः

मृगनेत्रा || स्त्री (मृगनेतृ + “नेतृर्नक्षत्र उपसंख्या- नम् ।” ५ । ४ । ११६ । इत्यत्र काशिकोक्तेः अप् ।)
मृगो मृगशिरा नेता प्रापयिता यस्या रात्रेः सा रात्रिः । इति मुग्धबोधटीकायां दुर्गादासः ॥ सा अग्रहायणस्य विंशतिदण्डाधिकत्रयोविश- दिनावधिसंक्रान्तिपर्य्यन्तं प्रायः सम्भवति । तत्र नवान्नश्राद्धनिषेधो यथा । ब्रह्मपुराणे । “वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः । अपरे क्रियमाणं हि धनुष्येव कृतं भवेत् ॥ धनुषि यत् कृतं श्राद्धं मृगनेत्रासु रात्रिषु । पितरस्तन्न गृह्णन्ति नवान्नामिषकाङ्क्षिणः ॥” अपरे कृष्णपक्षे । मृगो नेता प्रापयिता यासां रात्रीणामितिव्युत्पत्त्या नक्षत्रान्नेतुरित्यनेनाद्- विधानात्तत्पदं सिद्धम् । ततश्च मृगशिरःपूर्ब्बा- र्द्धन वृश्चिकशेषभागे रात्र्यारम्भाच्चत्वारिं- शद्दण्डाधिकषड्रात्रयो मृगनेत्राः । इति मल- मासतत्त्वम् ॥ (मृगस्य नेत्रे इव नेत्रे यस्य । मृग तुल्यनेत्रे, त्रि ॥)



Correction: