वाचस्पत्यम्
मृगराज || पु० मृगाणां पशूनां राजा टच्समा० । १ सिंहे शब्दर० । मृगेण गजेन राजते अच् । २ चन्द्रे । ३ सिंह- राशौ च । उपचारात् ४ मृगशिरानक्षत्रे च ।
शब्दकल्पद्रुमः
मृगराजः || पुं, (मृगाणां पशूनां राजा अधिपतिः । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ॥)
सिंहः । इति शब्दरत्नावली ॥ (यथा, रघुवंशे । ६ । ३ । “शिलाविभङ्गैर्मृगराजशाव- स्तुङ्गं नगोत्सङ्गमिवारुरोह ॥” व्याघ्रः । यथा, महाभारते । १ । १४१ । ३४ । “शृणु मे त्वं महाबाहो ! यद्वाक्यं मूषिकोऽब्रवीत् । धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ।”)