वाचस्पत्यम्
मृगव्य || न० मृगान् व्यथतेऽत्र व्यथ—ड । मृगयायाम् अमरः ।
शब्दकल्पद्रुमः
मृगव्यं || क्ली (मृगान् विध्यति अत्र इति । व्यध् + “अन्येष्वपि दृश्यते ।” ३ । २ । ४८ । इति काशिकोक्त्या अधिकरणे डः ।)
मृगया । इत्यमरः । २ । १० । २३ ॥ (यथा, मार्कण्डेये । १२७ । १ । “कदाचिद्राजपुत्त्रोऽसौ मृगव्यमचरद्वने ।”)