संस्कृत-शब्दकोशः

मृगव्य मृगशिरा

मृगशिरस्

वाचस्पत्यम्

मृगशिरस् ||‍ न० पु० । मृगस्येव शिरोऽस्य । अश्विन्यवधिके पञ्चमे नक्षत्रे मृगशिराप्यत्र स्त्री टाप् शब्दर० । मृग- शीर्षन्, न० रायमु० मृगशीर्ष पु० एतावप्यत्र भरतः ।


शब्दकल्पद्रुमः

मृगशिरः || [स्] क्ली, (मृगस्येव शिरोऽस्य ।)
सप्तविंशतिनक्षत्रान्तर्गतपञ्चमनक्षत्रम् । तत्- पर्य्यायः । मृगशीर्षम् २ आग्रहायणी ३ । इत्यमरः । १ । ३ । २३ ॥ (यथा, बृहत्संहिता- याम् । १० । ५ । “मृगशिरसि वत्सयाजक- यजमानार्य्यजनमध्यदेशाश्च ।”)
तत्तु विडालपदाकृति तारात्रयात्मकं चन्द्राधि- दैवतम् । इति ज्योतिषम् ॥ गगनमध्ये तस्योदये कन्यालग्नस्य द्वात्रिंशत्पलानि गतानि भवन्ति । यथा, —
“मूषिकाशनपदाकृतौ विधौ व्योममध्यमिलिते त्रितारके । शारदेन्दुमुखि ! कन्यकोदया- दीक्षणानलकलाः कलावति ! ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ तत्र जातफलम् । यथा, —
“शरासनाभ्यासरतो विनीतः सदानुरक्तो गुणिनां गुणेषु । भक्तानुपस्नेहभरेण पूर्णः सन्मार्गवर्त्ती मृगजन्मभागी ॥” इति कोष्ठीप्रदीपः ॥


शब्दकल्पद्रुमः

मृगशिराः || [स्] पुं, (मृगस्येव शिरो यस्य ।)
मृगशिरोनक्षत्रम् । इत्यमरटीकायां राय- मुकुटः ॥



Correction: