वाचस्पत्यम्
मृगाक्षी || स्त्री मृगस्येवाक्षि तत्तुल्यं पुष्पं वा यस्याः षच्सभा० ङीष् । १ विशालायां २ मृगतुल्यनयनवत्यां स्त्रियां च मेदि० ।
शब्दकल्पद्रुमः
मृगाक्षी || स्त्री (मृगस्येव अक्षि तद्वत्पुष्पं अक्षिणी वा अस्याः । अक्षि + “अक्ष्णोऽन्यतरस्याम् ।” ५ । ४ । ७६ । इति अच् । स्त्रियां ङीष् ।)
विशाला ॥ (यथास्याः पर्य्यायः । “ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी । वारुणी चामराप्युक्ता सा विशाला महाफला । श्वेतपुष्पा मृगाक्षी च मृगेर्व्वारुर्मृगादनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मृगलोचनतुल्यनेत्रा स्त्री । इति मेदिनी । षे, ४४ ॥ (यथा, छन्दोमञ्जर्य्याम् । २ । ११ । ८ । “वल्लववेशा मुररिपुमूर्त्ति- र्गोपमृगाक्षीकृतरतिपूर्त्तिः । वाञ्छितसिद्ध्यै प्रणतिपरस्य स्यादनुकूला जगति न कस्य ॥”)