संस्कृत-शब्दकोशः

मृगाजीव मृगादन

मृगाण्डजा

वाचस्पत्यम्

मृगाण्डजा ||‍ स्त्री मृगस्याण्डाकारात् नाभिस्थितमांसपिण्डात् जायते जन—ड । कस्तूर्य्याम् राजनि० ।


शब्दकल्पद्रुमः

मृगाण्डजा || स्त्री (मृगाण्डात् जायते इति ॥ जन् + डः + स्त्रियां टाप् ।)
कस्तूरी । इति राजनिर्घण्टः ॥ (तथास्या विषयः । “एतैः समस्तैर्द्विपलप्रमाणै- रालोड्य सर्व्वं विधिना विपक्वम् । कर्पूरकाश्मीरमृगाण्डजानां चूर्णीकृतानां त्रिपलप्रमाणम् ॥” इति भैषज्यधन्वन्तरौ वातरोगे मध्यमनारायण- तैले ॥)



Correction: