वाचस्पत्यम्
मृगादनी || स्त्री मृग इवाद्यते अद—कर्मणि ल्युट् । १ सह- देव्याम् २ इद्रवारुण्याम् (राखालशशा) ३ कर्कोटीभेदे च राजनि० ।
शब्दकल्पद्रुमः
मृगादनी || स्त्री (मृगैरद्यते भुज्यतेऽसौ इति ॥ अद् + कर्म्मणि ल्युट् + स्त्रियां ङीष् ।)
इन्द्र- वारुणी । सहदेवी । मृगेर्व्वारुः । इति राज- निर्घण्टः ॥ (यथा, —
“शिरीषञ्च महातिक्ता जरातुम्बी मृगादनी ।” इति गोविन्दविशारदकृतभैषज्यरत्नावल्याम् कुष्ठचिकित्सायाम् ।)
क्षुद्रुव्याघ्री च ॥