वाचस्पत्यम्
मृगेर्वारु || स्त्री मृगप्रिया इर्वारुः कर्कोटी । श्वेतायामिन्द्र- वारण्याम् (सादा राखालशशा) राजनि० ।
शब्दकल्पद्रुमः
मृगेर्व्वारुः || स्त्री (मृगस्य प्रिया इर्व्वारुः ।)
श्वेतेन्द्रवारुणी । सेँधिनी इति हिन्दीभाषा ॥ तत्पर्य्यायः । मृगाक्षी २ श्वेतपुष्पा ३ मृगा- दनी ४ चित्रवल्ली ५ बहुफली ६ कपिलाक्षी ७ मृगेक्षणा ८ चित्रा ९ चित्रफला १० पथ्या ११ विचित्रा १२ मृगचिर्भिटा १३ मरुजा १४ कुम्भिनी १५ देवी १६ कट्फला १७ लघु- चिर्भिटा १८ । अस्या गुणाः । दुर्ज्जरत्वम् । गुरुत्वम् । मन्दानलकारित्वम् । रक्तपित्तहारि- त्वञ्च । इति राजनिर्घण्टः ॥