वाचस्पत्यम्
मृजा || स्त्री मृज—अङ् । मार्जने अमरः “शिरसा च मृजावता” भट्टिः
शब्दकल्पद्रुमः
मृजा || स्त्री (मृज्यते इति । मृज् + “षिद्भिदा- दिभ्योऽङ् ।” ३ । ३ । १०४ । इति अङ् + टाप् च ।)
मार्जनम् । इत्यमरः । २ । ६ । १२१ ॥ (यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये । “अभ्यङ्गो मार्द्दवकरः कफवातनिरोधनः । धातूनां पुष्टिजननो मृजावर्णबलप्रदः ।”)