वाचस्पत्यम्
मृड || तोषणे क्र्या० तु० च पर० सक० सेट् । मृड्णाति मृडति अमर्डीत् ममर्ड ।
वाचस्पत्यम्
मृड || पु० मृड—क । १ शिवे अमरः २ तत्पम्त्याम् स्त्री ङीष् आनुक् च मृडानी ।
शब्दकल्पद्रुमः
मृड || ग श मोदे । इति कविकल्पद्रुमः ॥ (क्रा०- वा तुदा०-अक०-सेट् ।)
मोद इह हृष्टी- करणम् ॥ ग मृड्णाति सरस्वत्या च यः सदेति हलायुधः । श मृडति दीनं दाता । अमृडित्वा सहस्राक्षमिति भट्टिः । मर्डिता । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
मृडः || पुं, (मृडति हृष्यतीति । मृड् + इगुप- धत्वात् कर्त्तरि कः ।)
शिवः । इत्यमरः । १ । १ । २३ ॥ (यथा, श्रीमद्भागवते । ४ । २ । ७ । “प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः ।”)