वाचस्पत्यम्
मृणाल || पुंन० मृण—कालन् । १ पद्मादेर्नालस्थे सूत्रे अमरः २ वीरणमूले न० मेदि० गौरा० ङीष् । मृणालीत्ययि ३ विसतन्तौ स्त्री राजनि० ।
शब्दकल्पद्रुमः
मृणालं || क्ली (मृण + कालन् ।)
वीरणमूलम् । इति मेदिनी । ले, १२४ ॥ (अस्य पर्य्यायो यथा, मृणालमभयं सेव्यं लामज्जकमुशीरकम् ॥” इति वैद्यकरत्नमालायाम् ॥ “स्यादुशीरं मृणालञ्च सेव्यं लामज्जकन्तथा ॥” इति गारुडे पूर्ब्बखण्डे २०८ अः ॥)
शब्दकल्पद्रुमः
मृणालं || क्ली पुं, मृण्यते हिंस्यते भक्षणाद्यर्थं यत् । (मृण् + “तमिविशिविडिमृणिकुलिकपि- पलिपञ्चिभ्यः कालन् ।” उणा० १ । ११७ । इति कालन् । पङ्कजादीनां नालम् ।)
मोलाम इति ख्यातम् । इति भरतः ॥ (यथा, नैषध- चरिते । १ । १३७ । “मदर्थसन्देशमृणालमन्थरः प्रियः कियद्दूर इति त्वयोदिते ।”)
तत्पर्य्यायः । विसम् २ । इत्यमरः । १ । १० । ४२ ॥ विशम् ३ । इति द्विरूपकोषः ॥ पद्मनालम् ४ मृणाली ५ मृणालिनी ६ पद्मतन्तुः ७ विसिनी ८ नलिनीरुहम् ९ । अस्य गुणाः । शिशिर- त्वम् । तिक्तत्वम् । कषायत्वम् । पित्तदाहमूत्र- कृच्छ्रविकाररक्तवान्तिहरत्वञ्च । इति राज- निर्घण्टः ॥ (शालूकविशेषः । तत्पर्य्यायो यथा, “पद्मादिकन्दः शालूकं करहाटश्च कथ्यते । मृणालं मूलं भिष्माण्डं लज्जाशूकञ्च कथ्यते ॥” तथास्य गुणाः । विशार्थे शालूकार्थे च ॥ “मृणालं शीतलं वृष्यं पित्तदाहास्रजिद्गुरु ॥ दुर्ज्जरं स्वादुपाकञ्च स्तन्यानिलकफप्रदम् । संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)