संस्कृत-शब्दकोशः

मृणाल मृणालिन्

मृणालिनी

शब्दकल्पद्रुमः

मृणालिनी || स्त्री (मृणालानि अस्याः सन्तीति । मृणाल + “पुष्करादिभ्यो देशे ।” ५ । २ । १३५ । इति इनिः । ङीप् च ।)
पद्मिनी । इति जटा- धरः ॥ सा तु पद्मयुक्तदेशः पद्मसमूहः पद्मलता च ॥ (यथा, रघुवंशे । १६ । ७ । “विमर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ।”)



Correction: