शब्दकल्पद्रुमः
मृणाली || स्त्री (मृणाल + गोरादित्वात् ङीष् ।)
मृणालम् । इति राजनिर्घण्टः ॥ (यथा, उत्तर- चरिते । १ । “परिमृदितमृणालीदुर्ब्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥”)
(अल्पं मृणालं इति । मृणाल + अल्पार्थे ङीष् ।)
स्वल्पमृणालजातिः । यथा, —
“सान्द्रं चन्दनमङ्गके बलयिताः पाणौ मृणाली- लताः । इति राजशेखरः । इत्यमरटीकायां भरतः ॥