संस्कृत-शब्दकोशः

मृतवत्सा मृतस्नात

मृतसञ्जीवनी

वाचस्पत्यम्

मृतसञ्जीवनी ||‍ स्त्री मृतान् संजीवयति सम् + जीव—णिच्- ल्यु गौरा० ङीष् । १ गोरक्षदुग्धायामोषधौ राजनि० तन्त्रोक्ते २ विद्याभेदे च ।


शब्दकल्पद्रुमः

मृतसञ्जीवनी || स्त्री (मृतं मृतशस्यम् जीवय- तीति । जीव् + ल्युट् + ङीप् च ।)
गोरक्ष- दुग्धा । इति राजनिर्घण्टः ॥ मृतजीवनार्थिका विद्या । यथा । अथ मृत- सञ्जीवनी विद्या । “आदौ प्रासादबीजं तदनु मृतिहरं तारकं व्याहृतीश्च प्रोच्चार्य्य त्र्यम्बकं यो जपति च सततं संपुटं चानुलोमम् ।” मृतिहरं त्र्यक्षरमृत्युञ्जयमन्त्रम् । संपुटितमिति अनुलोमक्रमेणैव संपुटमित्यर्थः । तेन हौं ततः प्रणवः ततो जूं सः ततः सप्रणवव्याहृतिः । मध्ये त्र्यम्बकमन्त्रः । ततो हौं प्रणवः जूं सः ततः सप्रणवव्याहृतिः । अस्य जपात् सर्व्व- सिद्धिर्भवति ॥ * ॥
अथ शुक्रोपासिता मृतसञ्जी- वनी विद्या । गायत्त्र्या एकैकपादानन्तरं त्र्यम्बकमन्त्रस्य एकैकपादञ्च । ततश्च गायत्त्र्याः प्रथमपादानन्तरं सुगन्धिं पुष्टिवर्द्धनम् । द्वितीयपादानन्तरं उर्व्वारुकमिव बन्धनात् । तृतीयपादानन्तरं मृत्योर्मुक्षीयमामृतात् ॥ अस्य ध्यानम् । “स्वच्छं स्वच्छारविन्दस्थितमुभयकरे संस्थितौ पूर्णकुम्भौ द्बाभ्यामेणाक्षमाले निजकरकमले द्वौ घटौ नित्यपूर्णौ । द्बाभ्यां द्वौ च स्रवन्तौ शिरसि शशिकलां चामृतैः प्लावयन्तं देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ॥” एवं ध्यात्वावाह्य प्रणवादित्र्यम्बकाय रुद्राय नमः । इत्यनेन पूजयेत् । अस्य जपात् सर्व्व- सिद्धिः । इत्यागमतत्त्वविलासः ॥ (तथा च ब्रह्यवैवर्त्तपुराणे प्रकृतिखण्डे ४५ । ११ । “महाज्ञानञ्च गोप्यञ्च मृतसञ्जीवनीं पराम् । महाज्ञानयुतां ताञ्च प्रवन्दन्ति मनीषिणः ॥” (क्ली । यथा, मार्कण्डेये । २४ । ४२ । “ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः । कथयामास तत्सर्व्वं मृतसञ्जीवनादिकम् ॥)



Correction: