वाचस्पत्यम्
मृतालक || न० मृतमालयति भूषयति अल—णिच् ण्वुल् । आढक्याम् अचरः । मृत् मृत्तिका तालः प्रतिष्ठा यस्य वा कप् । मृत्तालकमप्यत्र शब्दर० । सौराष्ट्रमृदि राजनि०
शब्दकल्पद्रुमः
मृतालकं || क्ली (मृतमालयति भूषयतीति । अल् + णिच् + ण्वुल् ।)
आढकी । इत्यमरः । २ । ४ । १३१ ॥ (तथास्य पर्य्यायः । “सौराष्ट्री तुरवी कांक्षी मृतालकमुराष्ट्रजे । आढकी चापि सा ख्याता मृत्स्ना च सुर- मृत्तिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)