संस्कृत-शब्दकोशः

मृतालक मृत्

मृति

शब्दकल्पद्रुमः

मृतिः || स्त्री (मृ + क्तिः ।)
मरणम् । इति हेम- चन्द्रः । २ । २३६ । (यथा, श्रीमद्भागवते । ६ । १४ । ५४ । “परे नु जीवत्यपरस्य या मृति- र्विपर्य्ययश्चेत्त्वमसि ध्रुवः परः ॥” यथास्या विषयः । “यो गौरवर्णो विदधाति कार्ष्ण्यं कृष्णोऽपि गौरत्वमुपैति यश्च । तथा मृतिं याति नरप्रकृत्या शीघ्रं विकृत्या जडतोऽपि यो वै ॥ यो वैपरीत्यं श्रवणेन शब्दं गृह्णाति वा नो शृणुते स शीघ्रं । स वै मृतिं पश्यति यो न पश्येत् छायां स्वकीयां धरणीप्रपन्नाम् ॥” इति हारीते द्वितीयेस्थाने तृतीयेऽध्याये ॥)



Correction: