शब्दकल्पद्रुमः
मृत्तालकं || क्ली (मृत्ताल + संज्ञायां कन् ।) तुवरिका । तुवरिकलाय इति अडर इति च ख्यातम् । इत्यमरटीकायां भरतः । सौराष्ट्र- मृत्तिका । इति राजनिर्घण्टः ॥