वाचस्पत्यम्
मृत्तिका || स्त्री मृद + तिकन् टाप् । १ मृदि (माटि) सा क्षेत्रत्वेनाऽस्त्यस्य अच् टाप् । २ आढक्याम् राजनि० ।
शब्दकल्पद्रुमः
मृत्तिका || स्त्री (मृदेव इति । मृद् + “मृदस्तिकन् ।” ५ । ४ । ३९ । इति स्वार्थे तिकन् । स्त्रियां टाप् ।)
तुवरी । इति राजनिर्घण्टः ॥ मृत् । इत्य- मरः । २ । १ । ४ ॥ माटी । इति माषा । तत्पर्य्यायः । मृदा २ मृत्तिः ३ । इति भरतः ॥ (अस्या भक्षणात् पाण्डुरोगोत्पत्तिः । तद्यथा, “मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः ॥ कषाया मारुतं पित्तं उषरा मधुरा कफम् ॥” इति माधवकरसंगृहीतरुग्विनिश्चये पाण्डु- रोगाधिकारे । अन्यत् मृत्शब्दे द्रष्टव्यम् ।)
स्नानकाले मृत्तिकालेपनविधिर्यथा, —
“मृदा प्रक्षाल्य लिङ्गन्तु द्बाभ्यां नाभेस्तथोपरि । अधश्च तिसृभिः कायं षड्भिः पादौ तथैव च ॥ कटिञ्च तिसृभिश्चापि हस्तयोर्द्विश्च मृत्तिकाः । प्रक्षाल्य कायं हस्तौ च द्विराचम्य यथाविधि । ततः संमार्जनं कृत्वा मृदमेवाभिमन्त्रयेत् ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ! । उद्धृतासि वराहेण कृष्णेनामितबाहुना ॥ मृत्तिके हर मे पापं यन्मया पूर्ब्बसञ्चितम् । मृत्तिके ब्रह्मदत्तासि प्रजया च धनेन च ॥ मृत्तिके त्वाञ्च गृह्णामि काश्यपेनाभिमन्त्रिताम् । मृत्तिके जहि मे पापं यन्मया दुष्कृतं कृतम् । त्वया हृतेन पापेन ब्रह्मलोकं व्रजाम्यहम् ॥” इति वह्निपुराणम् ॥ * ॥
शौचार्थमृत्तिकाग्रहणविधिर्यथा, —
“आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणम् । कुर्य्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥ नाहरेत् मृत्तिकां विप्रः पांशुलान्न च कर्द्द- मात् । न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च ॥ न देवायतनात् कूपात् गेहान्न च जलात्तथा । उपस्पृशेत्ततो नित्यं पूर्ब्बोक्तेन विधानतः ॥” इति कौर्म्मे उपविभागे १२ अध्यायः ॥ तस्याः परीक्षा मन्दिरशब्दे द्रष्टव्याः ॥