संस्कृत-शब्दकोशः

मृत्फली मृत्युञ्जय

मृत्यु

वाचस्पत्यम्

मृत्यु ||‍ पु० मृ—त्युक् । १ यमे हेम० देहादिभ्यः २ प्राणवियोगे विजातीयात्ममनःसंयोगनाशे वा ३ मरणे च अमरः । “मृत्योः स मृत्युमाप्नोति” श्रुतिः भयात् मायायां जाते ४ पुत्रभेदे पु० भयाज्ज्ञेऽथ वै माया मृत्युं भूतापहा- रिणम् । निरृतिश्च तथा कन्या मृत्योर्भार्य्याऽभवन्मुने! । अलक्ष्मीर्नाम तस्यां च मृत्योः पुत्राश्चतुर्दश” मार्क० पु० ।


शब्दकल्पद्रुमः

मृत्युः || पुं, (म्रियते अस्मादिति मृ + “भुजिमृङ्भ्यां युक् त्युकौ ।” उणा० । ३ । २१ । इति त्युक् ।)
यमः । इति हेमचन्द्रः ॥ कंसः । यथा, —
“प्रत्यर्प्य मृत्यवे पुत्त्रान् मोचये कृपणामिमाम् । सुता मे यदि जायेरन् मृत्युर्व्वा न म्रियेत चेत् ॥” इति श्रीभागवते १० स्कन्धे १ । ४९ ॥


शब्दकल्पद्रुमः

मृत्युः || पुं, क्ली, प्राणवियोगः । तत्पर्य्यायः । पञ्चता २ कालधर्म्मः ३ दिष्टान्तः ४ प्रलयः ५ अत्ययः ६ अन्तः ७ नाशः ८ मरणम् ९ निधनः १० । इत्यमरः ॥ पञ्चत्वम् ११ मृतम् १२ मृतिः १३ । इति तट्टीकायां रमानाथः ॥ नैधनम् १४ । इति तट्टीकासारसुन्दरी ॥ संस्था १५ कालः १६ परलोकगमः १७ दीर्घनिद्रा १८ निमीलनम् १९ अस्तम् २० अवसानम् २१ । इति हेमचन्द्रः ॥ भूमिलाभः २२ निपातः २३ विलयः २४ आत्य- यिकम् २५ । इति शब्दरत्नावली ॥ अप्ययः २६ । (मरणार्थे यथा, —
“क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा । न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ॥ प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् । पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥” इति सुश्रुते सूत्रस्थाने ३१ अः ॥ “एकोत्तरं मृत्युशतमथर्व्वाणः प्रचक्षते । तत्रैकः कालसंज्ञस्तु शेषास्त्वागन्तवः स्मृताः ॥ दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ । रक्षेतां नृपतिं नित्यं यत्नाद्बैद्यपुरोहितौ ॥” इति च तत्र तत्स्थाने । ३४ अः ॥)
तत्प्रमाणं यथा, —
“अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । अहं सर्व्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥” इति श्रीमद्भागवते ११ स्कन्धे । १६ । १० ॥ स तु ब्रह्मणो गुदतो जातः । यर्था, —
“पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ! । हिंसाया निरृते मृर्त्योर्निरयस्य गुदं स्मृतम् ॥” इति श्रीभागवते २ स्कन्धे ५ अध्यायः ॥ कल्पान्तरे भयात् मायायां जातः । यथा, —
“हिंसा भार्य्या त्वधर्म्मस्य तयोर्जज्ञे तथानृतम् । कन्या च निकृतिस्ताभ्यां भयं नरकमेव च ॥ माया च वेदना चैव मिथुनं त्विदमेतयोः । भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥ वेदना च सुतञ्चापि दुःखं जज्ञेऽथ रौरवात् । * । अस्यापत्यादि यथा, —
“मृर्त्योर्व्याधिर्जराशोकतृष्णाक्रोधाश्च जज्ञिरे । दुःखोत्तराः स्मृता ह्येते सर्व्वे चाधर्म्मलक्षणाः । नैषां भार्य्यास्ति पुत्त्रो वा सर्व्वे ते ह्यूर्द्ध्वरेतसः ॥ निरृतिश्च तथा चान्या मृत्योर्भार्य्याभवन् मुने ! । अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्त्राश्चतुर्द्दश ॥ अलक्ष्मीसूचका ह्येते मृत्योरादेशकारिणः । विनाशकाले च नरान् भजन्त्येते शृणुष्व तान् ॥ इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः । स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति च ॥ तथेन्द्रियाणि चाक्रम्य रागलोभादिभिर्नरान् । योजयन्ति तथा हानिं यान्ति धर्म्मादिभिर्द्विज ! ॥ अहङ्कारगताश्चान्ये तथान्ये बुद्धिसंस्थिताः । विनाशाय नरस्त्रीणां यतन्ते मोहसंश्रयाः । एवं त्वधर्म्मेणोत्पन्नाः सर्व्वे चापि भयङ्कराः ॥” इति मार्कण्डेयपुराणे दुःसहानुशासनं नामा- ध्यायः ॥ विष्णुपुराणे प्रथमेऽंशे सप्तमोऽध्यायश्च ॥ मृत्युज्ञापकारिष्टानि यथा, — दत्तात्रेय उवाच । “अरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते । येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥ देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् । यो न पश्येन्न जीवेत् स नरः संबत्सरात् परम् ॥ अरश्मि विम्बं सूर्य्यस्य वह्निञ्चैवांशुमालिनम् । दृष्ट्वैकादशमासेभ्यो नरो नोर्द्ध्वं स जीवति ॥ वान्त्यां मूत्रे पुरीषे वा सुवर्णं रजतं यथा । प्रत्यक्षमथवा स्वप्ने जीवितं दशमासिकम् ॥ दृष्ट्वा प्रेतपिशाचादीन् गन्धर्व्वनगराणि च । सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति ॥ स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते । प्रकृतेश्च निवर्त्तेत तस्यायुश्चाष्टमासिकम् ॥ खण्डं यस्य पदं पार्ष्ण्योः पादस्याग्रेऽथवा भवेत् । पांशुकर्द्दमयोर्म्मध्ये सप्त मासान् स जीवति ॥ कपोतगृध्रकाकोला वायसो वापि मूर्द्धनि । क्रव्यादो वा खगो लीनः षण्मासायुःप्रदर्शकः ॥ हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा पुनः । स्वच्छायाञ्चान्यथा दृष्ट्वा पञ्च मासान् स जीवति ॥ अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् । पयसीन्द्रधनुर्व्वापि जीवितं द्बित्रिमासिकम् ॥ घृते तैले तथादर्शे तोये वा चात्मनस्तनुम् । यः पश्येदशिरस्कां वा मासादूर्द्धं न जीवति ॥ यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा । तस्यार्द्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥ यस्य वै स्नातमात्रस्य हृत्पादमवशुष्यति । पिवतश्च जलं शोषो दशाहं सोऽपि जीवति ॥ स्तम्भितो मारुतो यस्य मर्म्मस्थानानि कृन्तति । न हृष्यत्यम्बुसंस्पर्शात्तस्य मृत्युरुपस्थितः ॥ ऋक्षवानरयुग्मस्थो गायन् यो दक्षिणां दिशम् । स्वप्ने प्रयाति तस्यापि न मृत्युः कालमृच्छति ॥ रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् । दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ॥ नग्नं क्षपणकं स्वप्ने हसमानं प्रदृश्य वै । एणं वा वीक्ष्य वल्गन्तं विद्यान्मृत्युमुपस्थितम् ॥ आमस्तकतलाद्यस्तु निमग्नं पङ्कसागरे । स्वप्ने पश्येत्तथात्मानं नरः सद्यो म्रियेत सः ॥ केशाङ्गारांस्तथा भस्म भुजगं निर्जलां महीम् । दृष्ट्वा स्वप्ने दशाहन्तु मृत्युरेकादशेऽहनि ॥ करालैर्व्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं समाप्नुयात् ॥ सूर्य्योदये यस्य शिवा क्रोशन्ती याति सम्मुखम् । विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥ यस्य वै मुक्तमात्रेऽपि हृदयं पीड्यते क्षुधा । जायते दन्तसंघर्षः स गतायुरसंशयम् ॥ दीपादिगन्धं नो वेत्ति वमत्यग्निं तथा निशि । नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥ शक्रायुधञ्चार्द्धरात्रे दिवा ग्रहगणं तथा । दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवान् ॥ नासिका वक्रतामेति कर्णयोर्नम्रतोन्नती । नेत्रञ्च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥ आरक्ततामेति मुखं जिह्वा वापि सिता तथा । तदा प्राज्ञो विजानीयानृमृत्युमासन्नमात्मनः ॥ उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशम् । प्रयाति तं विजानीयात् सद्यो मृत्युं नरेश्वर ! ॥ पिधाय कर्णं निर्घोषं न शृणोत्यात्मसम्भवम् । नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति ॥ पततो यस्य वै गर्त्ते स्वप्ने द्वारं पिधीयते । न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥ ऊर्द्ध्वा च दृष्टिर्न च संप्रतिष्ठा रक्ता पुनः संपरिवर्त्तमाना । मुखस्य चोष्मा शिशिरा च नाभिः शंसन्ति पुंसामपरं शरीरम् ॥ स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते नरः । जलप्रवेशादपिवा तदन्तं तस्य जीवितम् ॥ यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा । स मृत्युं सप्तरात्रान्तात् पुमानाप्नोत्यसंशयम् ॥ स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथोऽसितम् । यः पुमान् मृत्युमापन्नं तस्यापि हि विनिर्द्दिशेत् ॥ स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्य्ययः । कथयन्ति मनुष्याणां समासन्नौ यमान्तकौ ॥ येषां विनीतः सततं यस्य पूज्यतमा मताः । तानेव योऽवजानाति तानेव च विनिन्दति ॥ देवता नार्च्चयेद्वृद्धान् गुरून् विप्रांश्च निन्दति । मातापित्रोरसत्कारं जामातॄणां करोति यः ॥ योगिनां ज्ञानविदुषामन्येषाञ्च महात्मनाम् । प्राप्तान्तकालः पुरुषस्तद्बिज्ञेयं विचक्षणैः ॥ योगिना सततं यत्नादरिष्टान्यवनीपते ! । मंवत्सरान्ते तज्ज्ञेन फलदानि दिवानिशम् । विलोक्यानि सदा चैव फलपङ्क्तिषु भीरुणा ॥” इति मार्कण्डेयपुराणे अलर्कोपाख्याने ४३ अः ॥ कर्म्मविशेषान्मृत्युविशेषो यथा, —
“येनानृतानि नोक्तानि प्रीतिभेदः कृतो नच । आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥ आगारदाहिनो दाहं क्षुधं चानन्नदायिनः । प्राप्नुवन्ति नराः काले तस्मिन् मृत्यावुपस्थिते ॥ देवब्राह्मणपूजायां ये रताश्चानसूयवः । श्लक्ष्णा वदान्या ह्नीमन्तस्ते नराः सुखमृत्यवः ॥ यो न कामान्न संरम्भान्न द्वेषाद् धर्म्ममुत्सृजेत् । यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ शीतं जयन्तीन्धनदास्तापं चोदकदायिनः । प्राणघ्नीं वेदनां कष्टां ये चान्ये द्वेषकारिणः ॥ मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् । कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै । ते मोहमृत्यवः सर्व्वे तथान्ये वेदनिन्दकाः ॥” इति मार्कण्डेयपुराणे पितापुत्त्रसम्बादे १० अध्यायः ॥ * ॥
मृत्युकालकर्त्तव्यक्षुद्रजन्तुबधप्रायश्चित्तं यथा, —
“बधेऽपि क्षुद्रजन्तूनां हिंसकानाञ्च पण्डितः । कार्षापणं समुत्सृज्य मृत्युकाले प्रमुच्यते ॥ अहिंसकानां क्षुद्राणां वधे शतगुणं ध्रुवम् । प्रायश्चित्तं मृत्युकाले कथितं पद्मयोनिना ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः ॥ मृत्युसमये गङ्गागमनमावश्यकं यथा, —
“अहो सगरवंशेभ्यो निर्व्वाणमुक्तिदायिनी । वैकुण्ठगामिनां मार्गसोपानरूपिणी वरा ॥ अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम् । आदौ पादौ च विन्यस्य मुखे तोयं प्रदीयते ॥ गङ्गासोपानमारुह्य सन्तो यान्ति ममालयम् ॥” इति तत्रैव ३४ अध्यायः ॥ * ॥
जन्मवतां मृत्योरपरिहार्य्यत्वं यथा, —
“मृत्युर्जन्मवतां वीर ! देहेन सह जायते । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥” इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥ अपि च । “जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि ॥” इति श्रीभगवद्गीता ॥ * ॥
अकालमृत्युप्रशमनं स्तोत्रं यथा, — सूत उवाच । “स्तोत्रं तत्संप्रवक्ष्यामि मार्कण्डेयेन भाषितम् । नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ १ ॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ २ ॥ वासुदेवं जगद्योनिं भानुमन्तमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ३ ॥ शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ४ ॥ वाराहं वामनं विष्णुं नारसिंहं जनार्द्दनम् । माधवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ५ ॥ पुरुषं पुष्करं पुण्यं क्षेत्रबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६ ॥ सहस्रशीर्षं देवेशं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽसि किन्नो मृत्युः करिष्यति ॥ ७ ॥ भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ८ ॥ इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ॥ प्रसन्ने पुण्डरीकाक्षे नृसिं हे नास्ति दुर्लभम् ॥ मृत्व्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ य इदं पठति स्तोत्रं त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । विचिन्त्य सूर्य्यादतिराजमानं मृत्युं स योगी जितवांस्तदैव ॥” इति गारुंडे २३८ अध्यायः ॥ * ॥
शुभकर्म्मप्रतिबन्धकमृत्युदा योगा यथा, —
“आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः । बुधे जया गुरौ रिक्ता शनौ पूर्णा च मृत्युदा ॥” अपि च । “रव्यादिदिवसैर्युक्ता विशाखादिचतुश्चतुः । उत्पाटा मृत्यवः काला अमृतानि यथाक्रमम् ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: