वाचस्पत्यम्
मृत्(सा)स्ना || स्त्री मृद् + प्रशस्तार्थे स स्न वा । १ प्रशस्तमृत्तिका- याम् अमरः । अर्शआद्यच् स्नान्तः । २ आढक्याम् अमरः ।
शब्दकल्पद्रुमः
मृत्स्ना || स्त्री (प्रशस्ता मृत् इति । मृत् + स्नः । टाप् ।)
प्रशस्तमृत्तिका । (यथा, श्रीमद्भागवते । ८ । ६ । १० । “त्वमादिरन्तो जगतोऽस्य मध्यम् घटस्य मृत्स्नेव परः परस्मात् ॥”)
काक्षी । इत्यमरः । २ । १ । ४ ॥ (अस्याः पर्य्यायो यथा, —
“सौराष्ट्री पार्व्वती मृत्स्ना काक्षी च पङ्क- पर्पटी ।” इति वैद्यकरत्नमालायाम् ॥)