वाचस्पत्यम्
मृदुच्छद || पु० छाद्यतेऽनेन छदः त्वक् ६ ब० । १ भूर्जवृक्षे २ पर्वतजपीलुवृक्षे जटा० ३ कुक्कुरवृक्षे ४ श्रीतालवृक्षे च राजनि० ।
शब्दकल्पद्रुमः
मृदुच्छदः || पुं, (मृदुः छदः पत्रमस्य ।)
भूर्जवृक्षः । इति हेमचन्द्रः । ४ । २१० ॥ गिरिजपीलुवृक्षः । इति जटाधरः ॥ कुक्कुरद्रुः । श्रीतालः । इति राजनिर्घण्टः ॥