संस्कृत-शब्दकोशः

मृद्वी मृध

मृद्वीका

वाचस्पत्यम्

मृद्वीका ||‍ स्त्री मृदु + ईकन् । १ द्राक्षायाम् अमरः २ कपिल- द्राक्षायाञ्च राजनि० ।


शब्दकल्पद्रुमः

मृद्वीका || स्त्री (मृदु + बाहुलकात् ईकन् टाप् च ।)
द्राक्षा । इत्यमरः । २ । ४ । १०७ ॥ (यथा, बृहत्संहितायाम् । ५५ । १० । “जम्बूवेतसवाणीरकदम्बोदुम्बरार्ज्जुनाः । बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः ॥”)
कपिलद्राक्षा । इति राजनिर्घण्टः ॥



Correction: