संस्कृत-शब्दकोशः

मृषाध्यायिन् मृषालक

मृषार्थक

वाचस्पत्यम्

मृषार्थक ||‍ न० मृषा अत्यन्तासम्भूतोऽर्थो यस्य । “कूर्मलोम- तनुत्राणः शशशृङ्गधनुर्द्धरः” इत्यादि मिथ्यार्थकवाक्ये ।


शब्दकल्पद्रुमः

मृषार्थकं || क्ली (मृषा अर्थोऽस्य । बहुब्रीहौ कप् ।)
अत्यन्तासम्भवार्थबाक्यम् । तत्पर्य्यायः । आह- तम् २ । इत्यमरः । १ । ६ । २१ । अत्यन्ता- सम्भवार्थे वचसि । आहन्यते स्म आहतं क्तः । मृषा मिथ्या अर्थोऽस्य मृषार्थकं इह मृषार्थं यत् सर्व्वथा न घटते । यथा, —
“एष बन्ध्यासुतो याति खपुष्पकृतशेखरः । कूर्म्मलोमतनूत्राणः शशशृङ्गधनुर्द्धर इति ॥ यावज्जीवमहं मौनी ब्रह्मचारी पिता ममेति । अस्य चायं भेदः मौनित्वं ब्रह्मचारित्वं अन्यत्र सिद्धमेव बन्ध्यासुतत्वं खपुष्पत्वञ्चान्यत्रासिद्ध- मिति । इति भरतः ॥



Correction: