संस्कृत-शब्दकोशः

मृषावादिन् मृष्ट

मृषोद्य

वाचस्पत्यम्

मृषोद्य ||‍ न० मृषा + वद—भावे क्यप् । १ मिथ्याकथने तद्विद्यते- ऽम्य अच । २ मिथ्यावादिनि त्रि० शब्दमा० ।


शब्दकल्पद्रुमः

मृषोद्यं || क्ली (मृषा + वद् + “राजसूयसूर्य्यमृषोद्य- रुच्यकुप्यकृष्टपच्याव्यथ्याः ।” ३ । १ । ११४ । इति कर्म्मणि क्यप् । निपातितश्च ।)
मिथ्यावाक्यम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, भट्टिकाव्ये । ५ । ६० । “मृषोद्यं प्रवदन्तीं तां सत्यवद्यो रघूत्तमः ॥”)


शब्दकल्पद्रुमः

मृषोद्यः || त्रि मिथ्यावादी । इति शब्दमाला ॥



Correction: