संस्कृत-शब्दकोशः

मृषोद्य मृष्टेरुक

मृष्ट

वाचस्पत्यम्

मृष्ट ||‍ न० मृज(ष)—क्त । १ मरिचे राजनि० २ धृष्ट्रे ३ शोधिते च त्रि० अमरः


शब्दकल्पद्रुमः

मृष्टं || क्ली (मृज + क्तः ।)
मरिचम् । इति राज- निर्घण्टः ॥


शब्दकल्पद्रुमः

मृष्टः || त्रि (मृज + क्त ।)
शोधितम् । इत्यमरः । ३ । ४ । ५६ ॥ (यथा, बृहत्संहितायाम् । ८५ । ९ । “अशुभकरमतोऽन्यथाप्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम् ॥”)



Correction: