संस्कृत-शब्दकोशः

मेखलाद्रिजा मेघकफ

मेघ

वाचस्पत्यम्

मेघ ||‍ पु० मिह—घञ् कुत्वम् । धूमज्योतिःपवनसलिलसंघात- जन्ये १ जलधरे २ मुस्तके च अमरः । ३ राक्षसभेदे शब्दच० ४ रागभेदे च स० गी० ।


शब्दकल्पद्रुमः

मेघः || पुं, (मेहतीति । मिह् + अच् । “न्यङ्क्वा- दीनाञ्च ।” ७ । ३ । ५३ । इति कुत्वम् ।)
मुस्तकः । राक्षसः । इति शब्दरत्नावली ॥ स्वनामख्यातद्रव्यपदार्थः । मेहति सिञ्चति यः । तत्पर्य्यायः । अब्भ्रम् २ वारिवाहः ३ स्तनयित्नुः ४ वलाहकः ५ धाराधरः ६ जल- धरः ७ तडित्वान् ८ वारिदः ९ अम्बुभृत् १० घनः ११ जीमूतः १२ मुदिरः १३ जलमुक् १४ धूमयोनिः १५ । इत्यमरः । १ । ३ । ७ ॥ अभ्रम् १६ पयोधरः १७ अम्भोधरः १८ व्योमधूमः १९ घनाघनः २० वायुदारुः २१ नभश्चरः २२ कन्धरः २३ कन्धः २४ नीरदः २५ गगनध्वजः २६ वारिमुक् २७ वार्मुक् २८ वनमुक् २९ अब्दः ३० पर्ज्जन्यः ३१ नभोगजः ३२ मदयित्नुः ३३ कदः ३४ कन्दः ३५ गवेडुः ३६ गदामरः ३७ खतमालः ३८ वातरथः ३९ श्वेतनीलः ४० नागः ४१ जलकरङ्कः ४२ पेचकः ४३ भेकः ४४ दर्दुरः ४५ । इति शब्द- रत्नावली ॥ अम्बुदः ४६ तोयदः ४७ अम्बुवाहः ४८ । इति रत्नमाला ॥ पाथोदः ४९ गदाम्बरः ५० गाडवः ५१ वारिमसिः ५२ । इति त्रिकाण्ड- शेषः ॥ तद्वैदिकपर्य्यायाः । अद्रिः १ ग्रावा २ गोत्रः ३ बलः ४ अश्नः ५ पुरुभोजाः ६ वलि- शानः ७ अश्मा ८ पर्व्वतः ९ गिरिः १० व्रजः ११ चरुः १२ वराहः १३ शम्बरः १४ रौहिणः १५ रैवतः १६ फलिगः १७ उपरः १८ उपलः १९ चममः २० अहिः २१ अभ्रम् २२ वलाहकः २३ मेवः २४ दृतिः २५ ओदनः २६ वृषन्धिः २७ वृत्रः २८ असुरः २९ कोशः ३० । इति त्रिंशन्मेघनामानि । इति वेदनिघण्टौ । १ । १० ॥ (यथा, उत्तररामचरिते । २ । “मेघमालेव यश्चायमारादपि विभाव्यते ॥”)
मेघनायका यथा, —
“त्रियुते शाकवर्षे तु चतुर्भिः शोधिते क्रमात् । आवर्त्तं विद्धि सम्बर्त्तं पुष्करं द्रोणमम्बुदम् ॥” एषां फलानि । “आवर्त्तो निर्जलो मेघः सम्बर्त्तश्च बहूदकः । पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
त्रेतायुगे तस्योत्पत्तिर्यथा, —
“अपां सिद्धे प्रतिगते तदा मेघाम्बुना तु वै । मेधेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्ज्जनम् ॥ सकृदेव तया वृष्ट्या संपृक्ते पृथिवीतले । प्रादुरासंस्तदा तासां वृक्षा वै गृहसङ्गिताः ॥ सर्व्वप्रत्युपभोगस्तु तासां तेभ्यः प्रजायते । वर्त्तयिष्यन्ति ते स्वस्थास्त्रेतायुगमुखे प्रजाः ॥” इति कौर्म्मे २६ अध्यायः ॥ * ॥
प्रलयकालीनमेघा यथा, —
“ततो गजकुलोन्नादास्तनितैः समलङ्कृताः । उत्तिष्ठन्ति सदा व्योम्नि घोराः सम्बर्त्तका घनाः ॥ केचिन्नीलोत्पलश्यामाः केचित् कुसुमसन्निभाः । धूम्रवंर्णास्तथा केचित्तथा पीताः पयोधराः ॥ केचिद्रक्ताभ्रवर्णाश्च स्थूलाः क्षारनिभास्तथा । शङ्खकुन्दनिभाश्चान्ये जात्याञ्जननिभाः परे ॥ मनःशिलानिभास्त्वन्ये कपोतसदृशाः परे । केचिद्रुद्राक्षवर्णाभास्तथान्ये क्षीरसन्निभाः ॥ तथा कर्व्वूरवर्णाभा भिन्नाञ्जननिभास्तथा । इन्द्रगोपनिभाः केचित् हरितालनिभास्तथा ॥ काकाण्डकनिभाः केचिदुत्तिष्ठन्ति घना दिवि । केचित् पर्व्वतसङ्काशाः केचिद्गजकुलोपमाः ॥ कूटागारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः । बहुरूपा घोररूपा घोरस्वरनिनादिनः । तदा जलधराः सर्व्वे पूरयन्ति नभस्थलम् ॥ ततस्ते जलदा घोरा वारिणा भास्करात्मजाः । सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥ ततस्ते जलदा वर्षं वर्षन्तीह महौघवत् । सुघोरमशिवं सर्ब्बं नाशयन्ति च पावकम् ॥ प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते किल । अद्भिस्तेजोऽंशभूतत्वात्तदाग्निं प्रविशत्यपि ॥ नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः । प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥ धाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा । उद्यन्तं सलिलौघैश्च वेला इव महोदधेः ॥ साद्रिद्बीपा तथा पृथ्वी जलैः संछाद्यते शनैः । आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ॥ पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः ॥” इति कौर्म्मे उपविभागे ४२ अध्यायः ॥ * ॥
मेघस्य उत्पत्तिर्यथा, —
“तेजो ह सर्व्वभूतेभ्य आदत्ते रश्मिभिर्जलम् । समुद्रात्त्वग्भसां योगाद्रश्मयः प्रवहन्त्यपः ॥ ततोऽयनवशात् काले परिवृत्तो दिवाकरः । नियच्छति पयो मेघे शुक्लाशुक्लैर्गभस्तिभिः ॥ अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । सर्व्वभूतहितार्थाय वायुभूताः समन्ततः ॥ ततो वर्षति सोऽम्भांसि सर्व्वभूतविवृद्धये । वायव्यं स्तनितञ्चैव विद्युदग्निसमप्रभम् ॥ मेरुसानुमिहेत्यातो मेघत्वं व्यञ्जयन्ति च । भ्रमिष्यन्ति यथा चापस्तदन्तं कवयो विदुः ॥” अपि च । “मेघानां पुनरुत्पत्तौ त्रिविधा योनिरुच्यते । अग्निजा ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः । त्रिधा त्रिधायनात्तेषां वक्ष्यामि वित्तसम्भवम् ॥ आग्नेयाः स्वन्नजाः प्रोक्तास्तेषां धूमः प्रवर्त्तनम् । जाता दुर्दिनवाताद्ये सगुणास्ते व्यवस्थिताः ॥ महिषाश्च वराहाश्च मत्तमातङ्गरूपिणः । भूत्वा धरणिमभ्येत्य रमन्ते विचरन्ति च ॥ जीमूता नाम ते मेघा ये तेभ्यो जीवसम्भवाः । विद्युद्गुणविहीनाश्च जलधारावलम्बिनः ॥ मृदुसेका महाकाया आवहस्य च सानुगाः । क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः । पर्व्वताग्रनितम्बेषु वर्षन्ति विपिनेषु च ॥ बलाका गर्द्दभाश्चैव बलाकागर्भधारिणः । ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः ॥ द्बितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः । इतो योजनमात्राश्च सार्द्धार्द्धात् विकृतादपि । वृष्टिसर्गाद्दिवस्तेषां धारासाराः प्रकीर्त्तिताः ॥ शक्रेण पक्षा यच्छिन्नाः पर्व्वतानां महौजसाम् । कामगानां प्रवृत्तानां प्रजानां शिवमिच्छता । पुष्करावर्त्तकास्तने करणेनेह विश्रुताः ॥ नानारूपधराश्चैव महाघोरस्वनाश्च ते । कल्पान्तवृष्टेः स्रष्टारः सम्बर्त्ताग्नेर्नियामकाः । वर्षन्ति ते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः ॥ अनेकरूपसंस्थानाः पूरयन्तो महीं जलैः । वायुं परिवहन्ते स्युराश्रिताः कल्पसाधकाः ॥ योऽन्यस्याण्डस्य भिन्नस्य प्राकृतप्रभवस्तदा ॥ यस्माद्ब्रह्मा समुत्पन्नश्चतुर्व्वक्त्रः स्वयम्भुवः । तस्यैवाण्डस्य पाला हि सर्व्वे मेघाः प्रकीर्त्तिताः ॥ तेषामध्यायनं धूमः सर्व्वेषामविशेषतः । तेषां श्रेष्ठस्तु पर्ज्जन्यश्चत्वारश्चैव दिग्गजाः ॥ गजानां पर्व्वतानाञ्च मेघानां भोगिभिः सह । कुलमेकं पृथग्भूतं योनिस्त्वेका जलं स्मृतम् ॥ पर्ज्जन्यो दिग्गजाश्चैव हेमन्ते शीतसंभवाम् । तुषारवृष्टिं वर्षन्ति हिमशस्यविवृद्धये ॥” इति ब्रह्माण्डे ५८ अध्यायः ॥ * ॥
षड्रागान्तर्गतरागविशेषः । यथा, —
“भैरवोऽथ वसन्तश्च नटो नारायणस्तथा । श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥” तस्य रागिण्यो यथा, —
“ललिता मालसी गौडी नाटी देवकिरी तथा । मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥” अयं हनूमन्मते षष्ठरागो ब्रह्मणो मस्तकात् निर्गतः । आकाशाज्जात इति च वदन्ति । अस्य जातिः औडवः । अर्थात् ध न ष ऋ ग इति पञ्चस्वरमिलितः । अस्य गृहं धैवतस्वरः । घर्षर्त्तौ रात्रिशेषे गानसमयः । अस्याकारः । सुन्दरपुरुषः । श्यामवर्णः । उष्णीषवद्वद्धकेशः । शाणितखड् गहस्तः । हनूमन्मते अस्य पञ्च- रागिण्यो यथा । टङ्का १ मल्लारी २ गुर्ज्जरी ३ भूपाली ४ देशकारी च ५ । अस्याष्टपुत्त्रा यथा । जालन्धरः १ सारः २ नटनारायणः ३ शङ्कराभरणः ४ कल्याणः ५ गजधरः ६ गान्धारः ७ सहाना ८ ॥ कलानाथमते । अस्य रागिण्यः षट् यथा । वङ्गाली १ मधुरा २ कामोदा ३ धनाश्रीः ४ तीर्थकी ५ देवाली ६ । एतन्मतेऽपि अष्टौ पुत्त्राः किन्तु नटनारायण- शङ्कराभरणकल्याणस्थाने केदारामारुजलभरता ज्ञेयाः ॥ सोमेश्वरमते अस्य षड्रागिण्यो यथा । मल्लारी १ सौरटी २ सावेरी ३ कौशिकी ४ गान्धारी ५ हरशृङ्गारी ६ । एतन्मतेऽपि पुत्त्राः पूर्ब्बवत् । रागिणीसहितस्यैतद्रागस्य वर्षर्त्तौ गानसमयः ॥ भरतमते तस्य पञ्च रागिण्यो यथा । मल्लारः १ मूलतानी २ देशी ३ रतिबल्लभा ४ कावेरी ५ । तनम्ते अष्टौ पुत्त्रा यथा । कलायरः १ वागेश्वरी २ सहाना ३ पुरीया ४ कानरा ५ तिलकः ६ स्तम्भः ७ शङ्कराभरणः ८ । तन्मते अष्टपुत्त्राणां भार्य्या यथा । करणाटी १ कादवी २ कदमनाटः ३ पाहारी ४ माँझः ५ परजः ६ नटमञ्जरी ७ शुद्धनटः ८ । इति सङ्गीतशास्त्रम् ॥



Correction: