शब्दकल्पद्रुमः
मेघकालः || पुं, (मेघानां कालः समयः ।) वर्षर्त्तुः । इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । ९५ । ५८ । “स्थलसलिलचराणां व्यत्ययो मेघकाले । प्रचुरसलिलवृष्ट्यै शेषकाले भयाय ॥”)