शब्दकल्पद्रुमः
मेघज्योतिः || [स्] पुं, (मेघस्य ज्योतिरग्निर्मेघा- दुत्पन्नो ज्योतिर्वा ।)
वज्राग्निः । तत्पर्य्यायः । इरम्मदः २ । इत्यमरः । १ । ३ । १० ॥ मेघस्य ज्योति- रग्निर्मेघज्योतिः । ज्योतिरग्नौ समाख्यातं ज्योतिश्चन्द्रो निगद्यते । इति रन्तिः ॥ इरया जलेन माद्यति दीप्यते इति इरग्मदः । मेघाग्निर्हि जलेनैव दीप्यते । मदीभिर्यञि हर्षे तॄ भॄ वॄ दॄ जीति खः खित्यव्याजिति मन्स्वौ । अन्योन्य- संघट्टेन मेघान्निःसृत्य यज्ज्योतिर्वृक्षादौ पतति स इरम्मदः । मेघ इत्युपलक्षणं तेन वातजो- ऽपीरम्मदः सोऽपि हि इरया जलेन माद्यतीति कौमुदी । मेघाग्न्यादिरिरम्मद इति शब्दार्णवः । इति तट्टीकायां भरतः ॥