वाचस्पत्यम्
मेघनादानुलासक || पुंस्त्री० मेघस्य नादेनानुलस्यति अनु + लस ण्वुल् । मयूरे राजनि० स्त्रियां ङीष् । णिनि । मेघनादानुलासिन् मयूरे अमरः ।
शब्दकल्पद्रुमः
मेघनादानुलासकः || पुं, (मेघनादं अनु लक्ष्यीकृत्य लसति क्रीडतीति । लस + ण्वुल् ।)
मयूरः । इति राजनिर्घण्टः ॥