शब्दकल्पद्रुमः
मेघनिर्घोषः || पुं, (मेघस्य निर्घोषः ।)
मेघशब्दः । तत्पर्य्यायः । स्तनितम् २ गर्जितम् ३ रसितम् ४ । इत्यमरः । १ । ३ । ८ ॥ ध्वनितम् ५ ह्रादितम् ६ । इति भरतः ॥ (मेघस्य निर्घोष इव निर्घोषो यस्य । मेघतुल्यशब्दविशिष्टे, त्रि । यथा, महा- भारते । ३ । ७३ । ११ । “यदि मां मेघनिर्घोषो नोपगच्छति नैषधः । अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥”)